________________
चतुर्थः सर्गः ततो वाचंयमी भूय स्थितोऽहं भूपते तदा। यदस्या रोचते ऽसौ तत्करोतु जननी मम ॥२॥ योऽथवा मातृवाक्योल्लंघनोऽधर्मः स एव । न इत्याधीशये भूयो मातेति गदिता मया ॥३॥ यद्यंगिहिंसनाद्धर्मः प्रोक्तो वेदे कुदृष्टिभिः । ततो निजं शिरश्छित्वा सकिरीं सकुंडलम् ॥४॥ देवतायै ददाम्यन्यत् प्राणिघातं करोमि न। मनोव'क्काययोगेन श्वभ्रपाथेयकारणम् ॥१५॥ एवमुक्त्वा सभामध्ये मंक्ष्वाकृष्य स्वपाणिना। मया खङ्गः कृतः कंठे वरहारादिभूषिते ॥८६॥ निशातं तं गलेलग्नमालोक्य सहसा मम । हाहाकारं विधायोच्चैर्मोचयामास सा स्वयम् ॥७॥ गृहोत्वा मम ] पादौ मां साऽवदन्मूढमानसा। दुःस्वप्नशांतयेऽत्यंतभयगद्गदभाषिणी ॥८॥ मा भयानिर्दयो. वत्सासुपिष्टकृतवाकुना। आत्महस्तहतेनाऽद्य शान्त्य देव्यच्चनं कुरु ॥८६॥ ततो मोहतमश्छन्नहृदयेन मया चिरम् । पायोदयाद्धितां पादलग्नां दृष्ट्वेति चितितम् ॥६॥ धर्माधर्मविचारज्ञामानेयं मां किमन्यथा। योजयत्यत्र वा धर्मो परश्वैष भविष्यति ॥१॥ तदेवं श्रदधानेन पुण्यहीनेन पापिना। मूढेनोत्थापिता माता मयोक्ता चैवस्त्विति ।।२।। अहो याऽत्रांगिनां भाविनी गतिर्जायते भुवि । सहाय्यबुद्धिधर्माद्यादिसामग्रो च तत्प्रदा ।।६३॥
ब. धर्म एव सः २.क.ब. ग. नुमत्।