________________
यशोधरचरित्रम् यदि यागे हता यांति पशवो नाकमेव हि। तहि स स्वजनैः किं न [मोहान्धैः] क्रियते मखः ॥७१।। जायेताऽत्र क्वचिदैवात्सति स्यादमृतं बत। गोशृंगादथवा क्षीरं न धर्मः प्राणिहिंसनात् ॥७१॥ यथाग्निः शीततां नाया चंचलत्वं सुराचलः। अभव्याश्चापि भव्यत्वं तथा हिंसा वृषं क्वचित् ।।७३।। यथाकाशान्महान्नान्यो मधुरं नामृतात्परम् । जिनेशान्न परो देवः [नाहिंसायाः परो वृषः] ।।७४॥ नातो मातः क्वचित्प्राणात्ययेऽपि ह्यगिहिंसनम्। करोमि कुलधर्म मे हत्वा जोवदयामयम् ।।७५॥ यतो जीवदयोपेतं पितृधर्म जिनोदितम्। . त्यक्त्वा, काये शठाः कुर्युः सत्वघातकरं वृषम्।।७६॥" ते लब्धा कुलनाशं च लक्ष्मीध्वंसं मृति व्यधम्। इहाऽमुत्र पतंत्येवातिधोरे नरकेऽशुभात् ।।७७॥ [दयाद्राभवन् माता] वत्स मैवं निराकुरु। . पूर्वाचार्यमतं वेदं हिंसाधर्म कुहेतुभिः ॥७॥ यतो वेद-पुराणस्मृत्यादोनां खलु भूतले।। मनुनोंक्तवषादीनां विचारो न विधीयते ॥७९॥ .. वेदधर्मादयोपोति प्रसिद्धाः शिवशासने। आज्ञामात्रात्परिग्राह्या न हंतव्याः कुहेतुभिः ॥१०॥ ततो मयेति संज्ञानं जिनरत्रापि यो जनः । न बोध्यो वचसा सोऽन्य दिशैश्च कथं भुवि ॥१॥
१. क. ख. ग. घ. मोहनः । २. क. याति। ३. क. ख. ग. घ. तथाऽगिरक्षणाद्वषः । ४. क. ख. ग. घ. अनुमामवदन् मतां । ५. क. ख. ग. घ.प्येति।