________________
चतुर्थः सर्गः
हिंसाया यदि धर्मोऽत्र जायते ते मति भुवि । ततो मातश्च दुष्टाश्चाखेटिका नोचजातिजाः ॥१८॥ सर्वे कार्वादयो व्याधाः धार्मिकाः सत्वहिंसनात् । स्युर्न चान्ये दयोपेताः मुनयः सत्कुला नृप ।।५।। यदि स्वर्गो भवेत्सत्वहंतृणां निर्दयात्मनाम् । तर्हि श्वधं भवेत्केषां मातस्त्वं मे निरूपय ॥६०॥ येन प्राणवतां घातो जायतेऽत्र कदाचन। न वेदः पोच्यते सद्भिः स पापश्छेदकारणः॥६१॥ वेदनाम्नाऽत्र सिद्धान्तं प्रोक्तं श्रीतीर्थदेशिना। समस्तांगिहितं मान्यं सर्वजीवाभयप्रदम् ॥६॥ तेन जैनोक्तवेदेन यः प्रोक्तो धर्म एव सः। स्वर्गापवर्गयोर्मूलं क्याढ्यः स्यान्न चापरः ॥६३॥ अहिंसालक्षषावेदारर्माच्चोज्जायते नृणाम् । शांतिवृद्धिर्महद्राज्यं पुष्ट्रिः तुष्टिर्न हिंसनात् ॥६॥ भवेद्घातोंऽगिनां वेन स यागो न बुधैः स्मृतः। यतोंऽगिवधनेनेहामुत्र दुःखं तथाऽशुभम् ॥६५॥ . जिनानां यजनोद्भूतो यो यज्ञः प्रोच्यते बुधः । विश्वविघ्नहरो नाककारणोऽत्र कृपामयः ॥६६॥ कर्तव्योऽत्र गृहस्थैः स महाभ्युदयकारकः । सदायं स्वर्गमोक्षाय नापरो जीवहिंसकः ॥६७॥ ये प्राणिघातनोद्युक्ताः क्रूरा मूढः प्रकल्पिताः। देवास्ते न भवत्यत्र देवा दुर्गतिगामिनः॥८॥ निग्रहानुग्रहं कतुन ते पुंसां क्षमा भुवि । निर्गुणा रागिणो निद्या दक्षः शस्त्रकराः खलाः ॥६६॥ निरायुधा हि निर्भषा जिनेशा दोषदूरगाः । भुक्तिमुक्तिप्रदाः पूज्या महादेवा बुधैर्मताः ॥७॥