SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ यशोधरचरित्रम् नैष्कर्मसूचकं धर्मं पुत्र जानासि केवलम् । अहिंसालक्षणं शास्त्रं जिनोक्तं च दयावहम् ॥१४६॥ वेदमार्ग न जानासि यामादिकरणं वृषम् । शांति वृद्धिकरं हिंसासंभवं मनुनोदितम् ॥ ४७ ॥ जीवघातार्चने नंव कुर्युर्देवाः [सुतोषिताः ] । शांतिपुष्टि श्रियं वृद्धिमारोग्यं च नृणां भुवि ॥ ४८ ॥ | यागाजिताय पाकेन शक्रत्वं राज्यमद्भुतम् । आनुवंति जना नूनममुत्र सुखमेव च ॥ ४६ ॥ यत् त्वयोक्तं परेषां यत् कृतं दुःखं हि तत्पुनः । आयाति मरणं वा तत् न सत्यं त्वमिदं श्रृणु ॥ ५० ॥ हता ये पशवों यागे वेदमं द्विजैर्भुवि । देवार्चनाय ते स्वर्गंगा मता वेदवदिभिः || ५१|| औषधार्थं यथा भुक्तं विषं हत्यत्र वेदनाम् । धर्मार्थं च तथा हिंसाकृतविघ्नं नृणामथो ॥ ५२ ॥ अतो वेदे च यागेss कृत्वा त्वं निश्चयं कुरु । धर्मबुध्यांगिनां हिंसां निःशंकीभूय हे सुत || ५३ || एवं तद्वचनं श्रुत्वा भणितांबा मया पुनः । मिथ्यादृष्ट्यातिमोहांधा राजन्नति तदा स्वयम् ॥ ५४ ॥ सर्वज्ञः सर्वदर्शी यो विश्वनाथो जगद्धितः । कृत्स्नदोषातिगोऽनंतगुणान्धिः श्रीजिनेश्वरः ॥ ५५ ॥ [ प्रणीत ] 2 स्तेन यो धर्मः सर्वजो वहितंकरः । हिंसातिगो भवेत्सत्यो नान्यो धूर्तेः प्ररूपितः || ५६|| प्रामाण्यात्पुरुषाल्लोके वाक्यप्रामाण्यमिष्यते । तयोर्ये विषयासक्तास्ते न सत्पुरुषा भुवि ॥ ५७ ॥ १. क ख ग घ सुप्रीणिताः । २. क ख ग घ प्रीणितः ।
SR No.002236
Book TitleYashodhar Charitam
Original Sutra AuthorN/A
AuthorBhagchandra Jain
PublisherSanmati Research Institute of Indology
Publication Year1988
Total Pages184
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy