________________
चतुर्थः सर्गः
तथानिष्टविनाशाय पूजनं श्रीजिनेशिनाम् । विश्वविघ्नहरं मातर्महाभ्युदयसाधनम् ||३४|| नीरादिफलपर्यंते रष्टभं दैर्बुधोत्तमः । पूजाद्रव्यैश्च कार्यं भक्त्या शक्त्या गृहनायकैः ।। ३५ ।। नात्र दुष्टा हि सा देवो पूजनीया सुधार्मिकैः । या हंति देहिनां पान क्रूरा विघ्नहाये || ३६ || तथा क्षत्रिय धर्मः प्रणोतो नोतिवेदिभिः । दुष्टनिग्रहः सुष्ठु प्रतिपालनसंभवः ||३७|| अतोऽन्यायाध्वगा भूपा नहि संति कदाचन । निर्दोषांच पशून्दीनान् दंतधृततॄणांस्त्रिधा ||३८|| नृपा यदि पशून् घ्नंति ततो लोको निरंकुशः । हंत्येतानखिलो ज्ञात्वेति हिंस्यास्ते न भूमिपैः ॥ ३९ ॥ अतो राजसुतैर्यत्नः कर्तव्योऽत्र महान् सदा । सर्वांगरक्षणे न्यायरतैर्धर्माय शर्म॑णे ||४०|| तथा नृपो' बला घातं दुर्बलस्य करोत्यधीः । स परत्राप्यवाप्नोति तस्मात् घातमनेकशः ॥ ४१ ॥ 'दुःखं वा यदि वा सौख्यं यो यस्यात्र दधाति सः । वैरात् स्नेहादमुत्रापि तस्मात्तद्व्रतयेन्महत् ॥४२॥ [यथैवाऽहं ] 2 च विज्ञाय धर्मपापं हिताहितम् । जिनेन्द्रवचनं जातु न करोम्यंगिघातनम् ।।४३। साध्यं कूपेात्पतनं यदि ।
• तथा ज्ञानेन पुसां च प्राणिरक्षा भवेन्न चेत् ॥ ४४ ॥ इति विज्ञापिता माता मया मामवदत्पुनः । पुत्रपौत्रस्नुषात्यंतमोहांधतमसांधधोः || ४५ ||
1. क. ख. ग. त्र्यो ।
2. क. ख. ग. घ अतोऽवाहं ।