________________
६६
यशोधरचरित्रम्
विघ्नजालं महादुःखरोगक्लेशदादंबकम् । निद्यं घोरतरं पापश्वभ्रतिर्यग्गतिप्रदम् ||२३|| राज्यलक्ष्मी कुटुंबादिध्वंस [श्चेज् ] जायते नृणाम् । भयभोतांगघातेन शठानामिह निश्चितम् ||२४|| अंधत्वं कुब्जकत्वं च दुष्कुलत्वं कुजन्मताम् । दौर्भाग्यत्वं विभीरुत्वं निःस्वामित्वं दरिद्रताम् ॥ २५॥ दीनत्वं निर्धनत्वं च वामनत्वं कुरूपताम् । भोगापभोगहीनत्वं दासत्वं बहुशोकताम् ||२६|| नारकत्वं कुतिर्यक्त्वं कुष्ठादिव्याधिसंचयम् । सर्वानिष्टादिसंयोगं वियोगं चेष्टवस्तुनः ॥२७॥ निर्दया हिंसका नूनं प्राणिनश्च भवे भवे । लभन्ते बहुधाऽशर्मं प्राणिघाताज्जिताशुभात् ॥ २८ ॥ यत्किचित्संसृतो दुःख-रोग- क्लेशादिजं धनम् । तत्सर्वं ह्यंब जानिहि सर्वघातफलं नृणाम् ||२९|| किच धर्मो जिनैः प्रोक्तो विश्वसत्वाभयप्रदः । अहिंसा लक्षणोपेतः सर्वविघ्नांतको भुवि ||३०|| अतो दुःख-प्रशान्त्यर्थं मातः कार्यः शुभोदयः । समस्तप्राणिवर्गेषु दक्षेरत्र हितंकरा ||३१|| दया पूर्वोऽप्यनुष्ठेयो धर्मोऽनिष्टविघातकृत् । विघ्नहान्यै स्वसौख्याय चेहामुत्र हितप्रदः ||३२|| न तव्याः क्वचिज्जीवा भयभीता विवेकिभिः । प्राणांते पदयां त्यक्त्वा विघ्नघ्ना विध्द शान्तये ||३२||
1. क. ख. ग. घ. च
2. क. ख प्रतिलिप्ययोः 25-25 श्लोकयोः क्रमव्यत्ययो विद्यते । 3. क. ख. घ. मातः कार्या दया शुभा