________________
चतुर्थः सर्गः
आगता जननी मेऽत्रांतरेपि सपरिच्छदा । मुदाकृतप्रणामाय सादादाशिषमूज्जिताम् ॥ ११ ॥ तथा वेत्रासनासीना [सा] प्राक्षोन्मामनामयम् । या चित्त विचार्येदं वाक्यं प्रोक्तं तपोऽर्थिना ॥ १२ ॥ शिवं किन्त्वद्य [दुःस्वप्नो दृष्टोऽम्ब]] रात्रौ मयाऽशुभः । जटाजूटशिरोदीर्घ शरीरोऽति भयानकः ॥ १३ ॥ विकरालमुखो रौद्रो राक्षसो वक्ति मामिति 1 सुताय सकलं राज्यं दत्त्वाशु त्वं मुनिर्भव ॥ १४ ॥ एवं कृतेऽत्र कौशल्यं भवतां स्याद् वतान्यथा । शीघ्र राज्यान्वितं त्वां सकुटुंबं भक्ष्ययाम्यहम् ॥१५॥ अतो मांतगृहीष्यामि सर्वनाशभयातुरः । सूनी राज्यं समारोप्य संयमं देव - दुर्लभम् ॥१६॥ श्रुत्वा स्वप्नमसाधुं तं भयवेपितया तया । प्रोक्तं पुत्र घरां पाहि चिरं विघ्नातिगोऽखिलाम् ॥१७॥ तत्स्वप्नमाननार्थं स्वराज्यपट्टोऽपि बध्यताम् । यशोमति-स ते सुतस्याशु· स्वहस्तेन त्वयाऽधुना ॥ १८ ॥ किं च कात्यायिनी देवी ममास्ति कुलदेवता । · स्निग्धा विघ्नोपसर्गाऽशर्म दुःस्वप्नादिनाशिनी ॥ १६ ॥ तस्याः स्वयं हतैर्जीवयुग्मै स्थलजलादिजैः । दुःस्वप्नशांत वत्स भक्तया त्वं कुरु पूजनम् ॥२०॥ अर्थ हिंसाकरं वाक्यं श्रुत्वा मात्रोदितं मया । स्वकर्णयुगलं छन्नं स्वपाणिभ्यां तदा कृतम् ॥२१॥ ततः प्रोक्ता मया मातेति त्वयांब निरूपितम् । मिथ्यावाक्यं बुधैनिन्द्यं सत्वच्तं धर्मदूषकम् ॥२२॥
१. क. ख. ग. घ. स्वप्नोदश्यंब - मात्रादोष अभिव्यक्तिदोषश्च ।
९५