________________
चतुर्थः सर्गः
अज्ञानध्वति द्वारं विश्वलोकप्रबोधकम् । चन्द्रप्रभमहं स्तोष्ये' मनःशुद्ध यै वृषाकरम् ॥१॥ 'अथोत्थाय सुशय्यायाः कृत्वा सामायिकादिकम् । स्नानागारं समासाद्य स्नानं हि कृतवानहम् ॥२॥ ततो नेपथ्ये गेहस्थस्यानीतं भूषणं मम । तांत्रिकैतद्धि दृष्ट्वेदं चितितं मानसे मया ||३|| कांतारतिविलोभार्थं भूषणं गृह्यते नृभिः । क्षपायां लक्षितः सोऽद्य ततोऽलं भूषणेन मे ॥४॥
सभ्य जनोऽथ वा ब्रूयात्तदग्रहणकारणम् । दक्षो दुष्टाशु तच्छ्रुत्वा सा पापाचारजाद्भवात् ॥ ५॥
स्वयं म्रियेत वा मां हि मारयेतातिरौद्रधीः । अतो विरक्तभावेन स्वीकृतं भूषणं मया ॥ ६ ॥ ततो गत्वा सभां रम्यां ध्वजमालाद्यलंकृताम् । हैमे सिंहासने तत्रोपविष्टोऽहं [विरागवान् ] ॥७॥ भूपसामंतमंत्र्याद्यैः कृतांजलिपुटैस्तदा ।
स्वावसरे मूर्ध्ना कृता मेऽह्यब्जवंदना ||८|| अथैतेषु निविष्टेषु यथास्थानं शुभाप्तये । श्री जिनेन्द्रमुखोत्पन्नशास्त्रस्याज्ञाननाशिनः ।। 8 ।। [जिनेन'] पाठके नाशु [ शुभाश्रवनिबंधनम् ] । मनोहर गिरारब्धं व्याख्यानं स्वाद्यवारणम् ॥१०॥
१. वन्दे ।
२. क. दक्षं ।
३. क. ख. ग. घ. विरक्तवान् ।
४. क. ख. जैनेन ।
५. क. ख. सातास्रवनिबन्धनम्