________________
[है० ८.१.१७५] द्वितीयः सर्गः । .सूल-कलाइ णुमण्णो सौर-णिसण्णो अ कित्ति-पङ्गुरणो ।
सो किच्ची-पाउरणं सिइ-पावरणं च अणुकाही ॥२०॥ अह राय-वाडिअत्थं नाओ आणाइओ रिउ-घरट्टो । पुहइ-सईसेणागरु-सुरहि-मओ सुकुसुम-सुतारो ॥२१॥ सचमर-कण्णो विदुरो गय-पावो देव-दुजओ विजणे । सो धरिओ पर-बारण-कवलण-नत्तंचर-चरित्तो ॥२२॥ बालक-मुहो सुहकर-गजी सुहयर-गई अ इअ थुणिओ । जग-आगभिओ बहुतर-आअमिअ-कलेहिँ बहुअरयं ॥२३॥
२०. कीर्तिस्त्रिजगतीश्लाघा प्रावरणं यस्य [स] राजा शूलकलायां निषण्णो व्यापृतः । सीरे हलरूपायुधे निषण्णश्च कृत्तिप्रावरणम् ईश्वरं शितिप्रावरणं बलभद्रं [च] अन्वकार्षीत् अनुकृतवान् ॥
णुमण्णो णिसण्णो.। " उमो निषण्णे”[१७४] इति पूर्ववद् उमादेशो वा ॥ पङ्गुरणो पाउरणं पावरणं । " प्रावरणेऽङ्ग्वाऊ' [ १७५] इति पूर्ववद् अङ्गु आउ इत्येतो आदेशौ वा ।।
२१. अथ शस्त्राभ्यासानन्तरं रिपुषु उपमर्दकत्वेन घरट्टः अगरुरिव सुरभिर्मदो दानजलं यस्य सुकुसुमा सुतारा शोभन आभरणविशेषो यस्य स तथाविधो नागः कुञ्जरो राजपाटिकार्थं चतुरङ्गसैन्यश्रमकरणाय बहिर्गन्तुं पृथिवीशचीशेन पृथिवीन्द्रेण आनायितः ॥ ...'२२. अधुना गाथादशकेन तद्वर्णनम् आह । सचमरौ समीपप्रेङ्खप्रकीर्णको कौँ यस्य विदुरः हस्तिपकाभिप्रेतकृत्यकरणाद् विचक्षणः गतं भद्रजातीयत्वेन नष्टं पापं कुचेष्टा यस्य देवदुर्जयः सुरैरपि दुरभिभवः । परेषां शत्रूणां परे अन्ये वा पराः प्रकृष्टा वा वारणास्तेषां कवलने प्रसने नक्तंचरचरित्रः अत एव स गजो विजने एकान्ते धृतः॥
२३. बालार्क इव अरुणत्वाद् मुखं यस्य सुखकरा शुभकरा वा १ BCD नक्क.