________________
[है० ८.१.१५२]
द्वितीयः सर्गः
४१
तस्स साणिच्छर-पिउणो व्व कर - हयं सिन्धवं व मल्ल - कुलं । धम्म- जलोल्लं जायं स - सिन्न -पर- सेन - महिअं पि ॥ ३ ॥ मुर-वेरिओ व्व रक्खिअ - दइच्च - कर्य - वइर-दइवय-सहन्नो । hurta स तत्थ धणु कइलास - सओ व्वं केलासे ॥ ४ ॥ देव्वाक्खो दवे व असङ्को महि-अले नव-दइव्वं । उच्च-नीच अ- लक्खे अणचुक्को अवर - धीर-हरो ।। ५
३. तस्य राज्ञः शनैश्चरपिता रविस्तस्यैव कराहतं हस्तताडितं किरणतापितं च सत् स्वसैन्यपरसैन्ययोर्महितं पराक्रमवत्त्वेन श्लाघितमपि कुलं सैन्धवम लवणवद् धर्मजलार्द्र क्षरत्स्वेदबिन्दु जातम् । अपिर्विस्मये ॥
सणिच्छर । सिन्धव । “इत् सैन्धवशनैश्चरे ” [१४९] इति ऐत इत्त्वम् ॥ सिन्न सेन्न । “सैन्ये वा ” [१५०] इति ऐत इत् वा ॥
""
४. मुरवैरीव नारायण इव रक्षितं दैत्यकृत वैरं दैवतसैन्यं येन [स इव] तत्र श्रमगृहे स राजा धनुरग्रहीत् । किंवत् । यथा कैलासे कैलासशयो हर इति ।
दइच्च । दइवय । सइन्नो । “अइर्दैत्यादौ च " [ १५१]इति सैन्ये दैत्यादिषु च ऐतः अइः ॥
वेरि वइर । कइलास केलासे । “ वैरादौ वा ” [१५२] इति ऐतः अइर्वा ॥
५. युग्मम् । स राजा शरान् वृष्टो वर्षति स्म । किंभूतः । शरग्रहसंधानादि कुर्वन् दैववद् अलक्ष्यः फलानुमेयप्रारम्भत्वात् । दैवेपि अशङ्कः लोकोत्तरधैर्यधारित्वाद् निर्भयः महीतले नवः साक्षाच्छिष्टप्रतिपालकत्वेन दुष्टनिग्रहेण च अपूर्वो दैवः । उच्चैर्नीचैश्च लक्ष्ये वेध्ये अभ्रष्टः सम्यक्कलाचातुरीचुँश्चुत्वाद् अस्खलितः । अपरस्य विपक्षस्य धैर्यहरः ॥
I
१. BC °कइ. २ BC पराक्रमित्वेन. ३ BC चचु..