SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ पतय-केसर-कन्ती अकिलिन्नो हरि-चवेल-चविलो सो।. स-किसर-किलित्त-दामो निवो पयट्टो समं काउं ॥१॥. गुरु-मण-थेणो रेवइ-देअर-सीअ-दिअराण बल-थूणो। । काही विअणं सो सयमवेअणो मल्ल-सेलाण ॥२॥ . . . १. त्रिक षट द्विक चतुष्क द्विक एक एक एक इत्येवं विंशत्या गाथाभिर्यथासंख्यं राज्ञो मल्लश्रमं धनुःश्रमम् असिश्रमं शक्तिश्रमं चक्रश्रम सेल्लश्रमं परशुश्रमं शूलसीरश्रमम्.आह ॥ पङ्कजकेसरः कमलकिञ्जल्कस्तद्वत् कान्तिः शरीरच्छविर्यस्य । स्वर्णवर्ण इत्यर्थः । अक्लिन्नः धर्मरहितः । हरिचपेटावत् सिंहतलप्रहारवत् चपेटा यस्य सकेसरं क्लप्तं कण्ठकन्दले स्थापितं दाम पुष्पमाला यस्य स नृपः श्रमं मल्लकलाभ्यास कर्तुं प्रवृत्त इति ॥ अकिलिन्नो । किलित्त । "लत इलिः क्लप्तक्लन्ने" [१५४] इति लत इलिः॥ २. गुरोः कलाचार्यस्य मनःस्तेनः निरवधिकलाकौशलकरणेन चित्तहारकः । बलस्य सामर्थ्यस्य स्तेनश्चोरः । कयोः । रेवती रामप्रिया तस्या देवरः कृष्णः स च सीताया जानक्या देवरो लक्ष्मणश्च तयोः । तद्वत्पराक्रमवान् इत्यर्थः । स राजा स्वयम् अवेदनः मल्ला एव उच्चत्वाद् दृढत्वाच्च शैलास्तेषां वेदनां संतापम् अकार्षीत् ॥ __ केसर किसर । चवेल चविलो। देअर दिअराण । विअणं वेअणो । “एत इद्वा' [१४६] इति एत इत् वा ॥ थेणो थूणो । “ऊः स्तेने वा" [१४७ ] इति एत ऊत् वा ॥ सेलाण । “ऐत एत् " [१४८] इति आद्यैकारस्य एत् ॥
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy