________________
[है० ८.१.१४४] प्रथमः सर्गः । सोवसन्त-रिउ-सरि-विलासओ तह य गिम्ह-उउ-सरिस-लीलओ। महुर-तिव्व-तेआसरिच्छओ सम-हरं दरिअ-आढिअं गओ ॥१०॥ नरऋषभैः सह नृपतिऋषभश्चलितः गुणनिकां कर्तुं प्रस्थितः ॥ रिपुच्छन्दा छन्दः ॥
रिद्धि । “ रिः केवलस्य” [१४०] इति व्यञ्जनेन असंपृक्तस्य ऋतो रिः॥
९०. मधुरं सदाचारिप्रमोदकत्वेन प्रियं तीव्र शत्रुसंतापकत्वेन प्रचण्डं यत् तेजो माहात्म्यं तेन असदृक्षः निरुपमः । अत एव वसन्ततुसदृक्षः विलासो विलसितं यस्य । तथा ग्रीष्मर्तुसदृक्षा लीला केलिर्यस्य च । मित्रामित्रेषु शान्ततीव्रवृत्तिरित्यर्थः । स राजा दृप्ताहतं बलिष्ठभटवृतं श्रमगृहं गुणनिकास्थानं गत इति उत्तरसर्गार्थसूचनम् ॥ पश्चिमान्तिका छन्दः । वदनकं वा ॥
अण रिणो । रिसी राम-इसी। रिज्जू सहुज्जुएहिं । उसहेहि रिसहो । रिउ उउ । “ऋणर्वृषभर्वृषौ वा” [१४१] इति ऋतो रिर्वा ॥
सरि । सरिस । सरिच्छ । " दृशेः क्विप्टक्सकः "। [१४२] क्विप् टक् सक् इत्येतदन्तस्य दृशो धातोः ऋतो रिरादेशः।
. आढिंअं । " आहते ढिः" [१४३] इति ऋतो ढिः ॥ . . . दरिअ । “अरिदृप्ते" [१४४ ] इति ऋतः अरिः ॥ . इत्याचार्यश्रीहेमचन्द्रविरचितश्रीकुमारपालचरितप्राकृतद्वयाश्रयमहा
काव्यवृत्तौ प्रथमः सर्गः समाप्तः॥