________________
कुमारपालचरिते कुल-जरईणं नत्तिअ-नत्तुअ-सहिआण सो वसु अदासि । . धरणि-बिहप्फइ-सीसी बुहप्फइ-सरिच्छ गुरु-पुरओ ॥ ८७ ॥ सो कुसुम-विण्ट-तिक्ख-प्पण्णाइ बहप्फइ व्व लच्छीए । काही पूअं सह-वेण्ट-फलेहिँ स-वोण्ट-फुल्लेहिं ॥ ८८॥ रिद्धि-हय-अणत्त-रिणो राय-रिसी धणुह वेअ-राम-इसी ।
रिज्जू सहुज्जुएहिं नर-उसहेहि चलिओ निवइ-रिसहो॥८९॥ पृथग् वृष्टो मुक्तजलो यो घनस्तद्वन्निर्मलेन गतकलुषेण तेन राज्ञा गीतम् आदिष्टं कारितम् । कीदृशम् । मृदङ्गिकरैः मार्दङ्गिकहस्तैस्ताड़िता आहता मृदङ्गा यत्र तत् तथाभूतम् ॥ . .
८७. कुले जरत्यो वृद्धस्त्रियः ताभ्यः । नप्तकैर्युक्ता. नतृकाः ताभिः सहितास्ताभ्यः पौत्रपौत्रीयुक्ताभ्यो धरण्यां बृहस्पतेः शिष्य उद्धवः तद्वत् । हेयोपादेयविचारचतुरत्वात् । स राजा बृहस्पतेः सदृक्षः . अद्भुतविशदप्रज्ञर्द्धियुक्तत्वेन समो यो गुरुः पुरोहितस्तस्य पुरतो वसु द्रव्यम् अदात् ॥
वुट्ठो विट्ठ । वुट्ठी विट्ठीहिं । पिहय पुहय । मुइंग मिइङ्ग । नत्तिअ नत्तुअ । " इदुतौ वृष्ट० " इत्यादिना [१३७] एषु ऋतः इकारोकारौ ॥
८८. कुसुमवृन्तवत् तीक्ष्णा या प्रज्ञा तया नूनं बृहस्पतिः स राजा लक्ष्म्या सवृन्तफलैः सवृन्तपुष्पैश्च पूजाम् अकार्षीत् ॥
बिहप्फइ बुहप्फइ । “वा बृहस्पतौ" [१३८] इति ऋत इदुतौ वा । पक्षे बहप्फइ ॥ .. विण्ट वेण्ट वोण्ट । इदेदोद॒न्ते'' [१३९] इति ऋत इत् एत् ओच ॥
८९. ऋद्ध्या हतं स्वधनेन निवर्तितम् ऋणेन ऋताः पीडितास्तेषाम् ऋणं येन । राजैव जीवरक्षाविधायित्वेन ऋषिः । धनुर्वेदे धनु:कलाप्रतिपादकशास्त्रे रामर्षिः परशुरामः । ऋजुः अकुटिलः ऋजुभि१ D धरिण्यां. २ BCD मुअंग मिअंग...