________________
[है ० ८.१.१२६] प्रथमः सर्गः। . निव-उसहो दिय-वसहे पिउ-कम-माउ-हर-आगए तत्तो। दाणेण तप्पिऊणं संपत्तो माइ-हरयम्मि ॥ ८४ ॥ माईण अमोसासीसयाण राया अमूस-परिवारो । अमुसा-वाई वुट्ठो धण-बुट्ठी-रयण-विट्ठीहिं ॥ ८५॥ विट्ठ-घण निम्मलेणं देवाणं पिहय पुहय देवीणं । . तेणादिहें गीअं मुईङ्गि-कर-ताडिय-मिइङ्गं ॥८६॥ उउ । उदृत्वादौ [ १३१ ] इति आदेर्ऋतः उत् ॥ निअत्तो निवृत्त । वन्दारय वुन्दारय । “निवृत्तवृन्दारके वा" [१३२] इति ऋत उत्त्वं [वा] .. ८४. ततः तिथिश्रवणानन्तरं पितृक्रमात् पितृवंशात् मातृगृहात् मातृवंशाच आगतान् द्विजवृषभान् प्रधानब्राह्मणान् दानेन तर्पयित्वा संतोष्य नृपवृषभो मातृगृहे संप्राप्तः ॥ वृषभशब्दस्य उत्तरपदस्थस्य प्रधानार्थाभिधायित्वम् । यद् अमरः ।।
. स्युरुत्तरपदे व्याघ्रपुंगवर्षभकुञ्जराः ।
सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः ॥ उसहो वसहे । " वृषभे वा वा" [१३३] इति वेन सह ऋत उत् वा ॥ पिउ-कम । माउ-हर । “गौणान्त्यस्य" [१३४] [इति] गौणपदस्य योन्त्य ऋत् तस्य उत् ।
८५. न विद्यते मृषा कूटभाषणं यस्य स परिवारो यस्य । अमृषावादी राजा अमृषा सत्या आशिषः प्रणामे कृते चिरं जीवेत्याद्याशीर्वचनानि यासां तास्तथा ताभ्यो [मातृभ्यः] धनवृष्टिरत्नवृष्टिभिवृष्टो वर्षति स्म । ताभ्यो धनं रत्नानि [च ] ददावित्यर्थः । _माउ-हर माइ-हर । "मातुरिद्वा" [१३५] इति मातुर्गौणस्य ऋत इत् वा। क्वचिद् अगौणस्यापि । माईण ॥
अमोसा अमूस अमुसा । "उदूदोन्मृषि"[१३६]इति ऋत उत् ऊत् ओत् ॥ ८६. देवानाम् । अप्रत इति शेषः । पृथक् असांकर्येण देवीनां १ BCD मुअंगिकरताडियमिअंगं. २ BC °पदस्थस्याप्र.