________________
कुमारपालचरिते कोहण्डि-कुसुम-मउवीओं काम-तोणीर-थार-कबरीओ। निम्मोल्लङ्गय-मण्डिअ-कोप्परया गहिअ-तम्बोला ॥ ७६ ॥ विब्भम-गलोइ-मेघा रम्भा-थोणा-निहोरु-थूणाओ। . तोणीहविअ सयं चिअ रइ-वइणो तूण-छड्डवणा ॥ ७७॥ सरउग्गय-मय-लञ्छण-सरिच्छ-वयणाओं वार-जुवईओ ।
चामर-दप्पण-हत्था अकास-कन्ती किसङ्गीओ ॥ ७८ ॥ पार्श्वे स्थिताः । किंभूताः । मधूकवद् गुडपुष्पवद् गौर्यः गौरागन्यः । मधूकवन्मधुरा मनोज्ञा गीर्यासाम् । वदन्तौ चङ्क्रमणवशात् सिञ्जानौ कनकस्य नूपुरौ मञ्जीरौ मणयः पद्मरागाद्याः तत्खचितौ नूपुरी वज्राणि हीरकाणि तत्खचितौ च नूपुरौ यासाम् ।। - ७६. कूष्माण्डीकुसुमवद्, मुंब्यः कोमलाङ्गयः । कामतूणीरवत् तद्वाणानां पुष्पाणां तत्र प्रक्षेपात् स्थूलाः कबर्यः घना वेणयो यासाम् । निर्मूल्याङ्गदण्डितकूर्पराः अनर्थ्यकेयूरभूषितभुजमध्या गृहीतताम्बूलाः।।
७७. विभ्रमा विलासास्त एव गुडूची अमृता तत्र वृद्धिजनकत्वेन मेघाः । रम्भायाः स्थूणां स्तम्भस्तत्संनिभा ऊरुस्थूणा यासां स्वयमेव तूणीभूय रतिपतेस्तूणमोचनाः ।
७८. शरदुद्गतमृगलाञ्छनसदृक्षवदनाः अकृशा .सर्वत्र विस्तृतत्वाद् धना कान्तिर्यासाम् कृशाङ्गयस्तनुशरीराः ॥ .
महूअ महुअ । “ मधूके वा” [ १२२ ] इति ऊत उत् वा ।
नेउर निउराओ। "इदेतौ नूपुरे वा”[१२३]इति ऊत इत् एत् वा । पक्षे। नूउर ॥
कोहण्डि । तोणीर । थोरै । निम्मोल्ल । कोप्परया । तम्बोला । गलोइ । "ओत् कूष्माण्डी " इत्यादिना [ १२४ ] एषु ऊत ओत् ॥ . १ BC स्थूणास्तम्भसंनिभा. २ BC थोरो.