________________
[है० ८.१.१२९]- प्रथमः सर्गः ।
३५ मत्तेभ-मउअ-गमणे तस्सि माउक-आसणासीणे। माउक्के अमउत्ते वि सुइ-गिराणं फुड-गिरेहिं ॥ ७९ ॥ आसंसिअं दिएहिं किवालु-हिअओ हवेहि महि-बडे । तुह पिट्ठ-चरा देवा हवन्तु नागा वि पट्ट-चरा ।। ८० ॥ अह खग्गि-सिङ्ग-पत्ते मसिणे मसणेण चन्दणेण गहे । अच्चिअ राय-मयको अकासि तिलयं मिअङ्क-निहं ॥ ८१ ॥
थोणा थूणा । तोणी तूण । “स्थूणातूणे वा' [१२५] इति ऊत ओत् वा । मय । “ऋतोऽत् ” [१२६] इति ऋतः अत्त्वम् ॥
७९. युग्मम् ॥ मत्तेभस्येव मृदुकं मन्थरं गमनं यस्य । मृदुकं हंसरूतपूरितत्वेन कोमलं यद् आसनं गष्टिकादि तस्मिन्नासीने उपविष्टे सति तस्मिन् राज्ञि श्रुतिगिरां वेदवाक्यानां मृदुत्वे अमृदुत्वेपि स्फुटगीर्भिः । वेदवाक्येषु यथास्थानम् उदात्तादिस्वरन्यासेन व्यक्त
वाग्भिरित्यर्थः॥ . ८०. द्विजैः इति आशंसितम् आशीर्वादः कृतः । तदेवाह । कृपालुहृदयो महीपीठे त्वं भव । तथा तव पृष्ठचराः पश्चांद्यायिनो देवाः पृष्ठचरा नागा अपि भवन्तु । तव क्षुद्रोपद्रवव्रातविकर्तनं सुरफणिपत्यादयः कुर्वन्त्वित्यर्थः । इतीत्यध्याहार्यम् ।।
अकास. किसङ्गीओ । मउअ माउक । माउके अमउत्ते । " आत् कृशा" इत्यादिना [१२७] एषु ऋत आत् वा । -- किवाल । हिअओ। "इत् कृपादौ" [१२८] इति आदेः ऋत इत्त्वम् ।।
पिट्ठ पट्ठ। पृष्ठे “वानुत्तरपदे" [१२९] इति ऋत इत् वा ॥ अनुत्तरपदे इति किम् । महि-वट्ठ ।।
८१. अथ द्विजाशीर्वादानन्तरं ममृणे श्लक्ष्णे खङ्गिनो गण्डकस्य शृङ्गं विषाणं तस्य पात्रे भाजने यच्चन्दनं तेन मसृणेन ग्रहान्