________________
[ है ८. १. ११२.] प्रथमः सर्गः । .. चत्तूण नेड-पीढं नीड-घरा मउलिआ मही-मउड ।
विदाय-निद्दमुड्डन्ति घरोवरि रुक्ख-अवरि च ॥ ६८ ॥ गरुआ वि गुरुअ-भिउडीहिँ वार-वालेहि पडिखलिजन्ता ।
बहु-पोरिसा वि पुरिसा निरुद्ध-छीआ इहं एन्ति ॥ ६९ ।। वद् आभा सादृश्यं यासां तास्तारा नभःपीठे कीदृश्य ईदृश्यः । न कीदृश्योपीत्यर्थः ॥
पेऊसा । आमेले । केरिस । एसिआओ। बहेडया । “ एत् पीयूष " [ १०५ ] इत्यादिना एषु ईत एत्त्वम् ॥
६८. हे पृथ्वीमुकुट पूर्व मुकुलिता रात्रौ एकत्र स्थितास्ततो नीडपीठं कुलायतलं त्यक्त्वा नीडगृहाः पक्षिणो विद्रुतनिद्रं गततन्द्रं यथा भवति एवम् उड्डीयन्ते गृहस्योपरि वृक्षस्योपरि च ॥
पेढे पीढं । नेड नीड । “ नीडपीठे वा" [१०६ ] इति ईत एत्त्वम् ॥ __ मउलि आ । मउड । " उतो मुकुलादिष्वत्" [१०७ ] इति एषु आदेरुतः अत्त्वम् ।। क्वचिद् आत्त्वमपि । विद्दाय ॥ - घरोवरिं अवरिं । “ वोपरौ' [ १०८ ] इति उतः अत् वा ॥
६९. गुरुकधुकुटिभिरपालैः प्रतीहारैः प्रतिस्खल्यमांना निरुध्यमाना गुरुका अपि कुङ्कणादिदेशस्वामिनोपि बहुपौरुषा अपि प्रचुरप्रराक्रमा अपि पुरुषाः मा भूत् अस्मत्स्वामिनः क्वापि कार्ये अशकुनम् इति निरुद्धक्षुता इह युष्मत्पादपद्मान्तिके आयन्ति आगच्छन्ति ।। · गरुआ गुरुअ । " गुरौ के वा" [१०९ ] इति स्वार्थिके के आदेरुतः अत् वा ॥ भिउडीहिँ । " इर्भृकुटौ" [११०] इति आदेरुतः इः ॥ पोरिसा । पुरिसा । " पुरुष रोः" [१११] इति रोख्त इत्वम् ॥ छीआ । " ई क्षुते" [ ११२ ] इति आदेरुत ई॥ १B पुरिसा रुद्ध-च्छीआ. २ D ईदृश्योपीत्यर्थः.