SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ २८ कुमारपालचरिते पिकङ्गु व निवडइ पिकिङ्गुअ-धूसरो ससी एस। ... सिढिल-करो सढिलङ्गो तित्तिर-मइल-प्फुड कलङ्को ॥ ६०॥ इअ आसंसन्ति नि-सीह सिंहदत्ताइणो दिआ तुज्झ । वीसं तीसं कप्पे जयसु दुजीहारि-नीसङ्क ॥६१॥ अदुइअ-रवि-भा-विइए गयणे जह पाइयम्मि दो-वयणं । कस्थ वि नस्थि तमो अहि-निवास लोअम्मि व णुमम्रो ॥६२॥ इत्यादिना [८८] आदेरितः अकारः । हरिद्रायां विकल्प इत्यन्ये । हलिद्दी । अहलिद्दा ॥ ६०. शिथिलकरो मन्दकिरणः शिथिलाङ्गो मन्दबिम्बः । 'तित्तिरिलावकः । तद्वन्मलिनः स्फुटः कलङ्को यस्य । पक्केङ्गुदवत् परिपाकप्राप्ततापसतरुफलवद् धूसरो धूम्रः एष शशी पक्केङ्गुदवत् निपतति अस्ताचले स्रंसते ॥ पिक्कङ्गु पिक्किङ्गुअ । सिढिल सढिल । " शिथिलेङ्गुदे वा" [ ८९ ] इति आदेरितः अद् वा ॥ तित्तिर । “तित्तिरौ रः” [९०] इति रस्य इतः अत् ।। ६१. हे नृसिंह नरोत्तम सिंहदत्तादयों द्विजाः तव इति आशंसन्ति आशीर्वादं कुर्वन्ति । तदेवाह । हे द्विजिह्वारिर्गरुडस्तद्वद् निःशङ्क, निर्भय त्वं विंशतिं त्रिंशतं कल्पान् जय । कल्पो देवयुगसहस्रद्वयम् ॥ इअ । " इतौ तो वाक्यादौ " [९१] इति इतितस्य इतः अत् ॥ निसीह । वीसं । तीसं । जीहा । " ईर्जिह्वा " इत्यादिना [९२] जिह्वादिषु इकारस्य तिना ईः । बाहुलकात् क्वचिन्न । सिंहदत्त ॥ नीसङ्क । “लुकि निरः" [९३] इति रलोपे इत ईः॥ ६२. यथा प्राकृते कापि द्विवचनं नास्ति । " द्विवचनस्य बहु१ B C पिकंगुअ.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy