________________
कुमारपालचरिते अद्द-नहङ्काण पियाण अल्ल-आलावयाण विलयाओ। उल्लन्ति अङ्कमंसुअ-ओल्लीहिं ओल्ल-नक्खङ्का ॥ ५५॥ . निअ-ठाण-मीलणं पिक्खिऊण चिन्ता-परा मिउल्लावा । नीलुप्पल-पेण्डे पिण्डिऊण भसला रुअन्ति व्व ॥ ५६ ॥
पारावय पारेवय । “पारापते रो वा' [८०] इति रस्य आत एत्त्वं वा ॥
तेत्तिअमेत्त तेत्तिअमत्तं । “मात्रटि वा' [ ८१] इति आत एत्त्वं वा । बाहुलकात् क्वचिन्मात्रशब्देपि । चालअ-मेत्ते ॥
५५. आर्द्रास्तत्कालदत्तत्वात् सरसा नखाङ्का कररुहव्रणानि येषाम् आर्द्राः स्नेहमिश्रा आलापाः परस्परोक्तयो येषां ते तथा । तेषां प्रियाणाम अङ्कम् उत्सङ्गम् आर्द्रनखाङ्का वनिता.योषितः अश्वालिभिः नेत्रबाष्प-, पङ्क्तिभिः आर्द्रयन्ति आर्द्र कुर्वन्ति । सर्वरात्रं सुरतादिसुखनिमग्ना वयम् इदानीं च तदुच्छेदजनकः प्रियविप्रयोगो भवितेति दुःखाद् रुदन्तीत्यर्थः॥
उल्लन्ति ओल । “उदोद् वाट्टे" [८२] इति आदेरातः उत् ओच्च वा पक्षे अद्द । अल ॥
ओलीहिं । "ओदाल्यां पड्तौ” [८३] इति आत ओत्त्वम् । ५६. प्रातः संकोचात् प्रागेव नीलोत्पलेभ्यो निर्गत्य रारट्यमानान् तत्कोशस्थांश्च भ्रमरान वीक्ष्य कविः एवम् ऊहमानः प्राह । निजस्थानमीलनं स्वावाससंकोचं प्रेक्ष्य विलोक्य चिन्तापराः क वयम् इदानीं निराश्रयाः स्थास्याम इत्यादिविकल्पसंकल्पनिष्ठाः । मृदुः सकष्टत्वात् कृशः उल्लापः अन्योन्यजल्पनं येषां ते तथा सन्तो भसला नीलोत्पलपिण्डे असितोत्पलकोशे पिण्डयित्वा मिलित्वा रुदन्तीव । येषां किल राजादिना गृहं मुड्यते तेपि मिलित्वा रुदन्तीत्युक्तिलेशः ॥ मिउल्लावा “हस्वः संयोगे" [८४] इति यथादर्शनं ह्रस्वः ॥