SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ [ है ० ८.१.७९ ] प्रथमः सर्गः । गयणे तुहिणोसांििण तुहिणासारं पडन्तमगणन्ता । उट्ठन्ति वहूओं पुरो अज्जूणं विणय-गेज्झाण ।। ५२ ।। कुट्टिम - चउ वारेसुं सतिण्हमिहि कुणन्ति रमणीओ । देरागय- पारावय- रावोट्ठिअ - पिअ - परीरम्भं ॥ ५३ ॥ पारेवय-मणिएहिं तेत्तिअमेत्तं रमेसुं वेसाओ । तेत्तिअमत्तं मग्गन्ति चलिअ - मेत्ते भुअङ्गमि ॥ ५४ ॥ २५ ५२. तुहिनस्य प्रालेयस्य आसारो वेगवद्वर्षो विद्यते यस्मिन् एवंभूते गगने सति तुहिनासारं पतन्तं शरीरे लगन्तम् अगणयन्त्यः अमन्यमाना विनयग्राह्याणां भक्त्या आवर्जनीयानाम् आर्याणां श्वश्रूणां पुरः पूर्वं वध्वः उत्तिष्ठन्ति ॥ तुहिणोसरिणि तुहिणासारं । " ऊद् वासारे” [ ७६ ] इति आदेशत् ऊत् वा ॥ अज्जूणं । "आर्यायां यः श्वश्र्वाम्” [७७] इति र्यस्य आत ऊः ॥ गेज्झाण। “एद् ग्राह्ये” [७८] इति एत्त्वम् ॥ ५३: कुट्टिमानि मण्यादिभिर्बद्धतेलानि यानि चतुर्द्वाराणि चतुर्मुखगृहविशेषास्तेषु सतृष्णं दिने आशङ्कितभाविबहुविरहत्वेन सतर्ष यथा भवति एवम् इदानीं प्रातःक्षणे द्वारेषु आगता ये पारापस्तास्तेषां रावैः शब्दैरुत्थिता. जागरिता ये प्रियास्तेषां परीरम्भम् आलिङ्गनं रमण्यः कुर्वन्ति ॥ देरा । “द्वारे वा” [७९] इति आत एत्त्वं वा । पक्षे वारे ॥ दुआरं । दारं इति प्रयोगद्वयंम् अनुक्तमपि ज्ञेयम् ॥ ५४. पारापतमणितानीव कलरवकूजितानीव यानि मणितानि रतकूजितानि तैः कृत्वा यावान् प्रतिज्ञातः कालस्तावन्मात्रं वेश्याः पण्याङ्गना अरंसिषत अक्रीडिषुः । भुजङ्गे विटे चलितमात्रे गमनोन्मुख एव तावन्मात्रं प्रतिज्ञातकालमनितं मार्गयन्ति गवेषयन्ति । पूर्वार्धे जित्तिअमित्तं इति तु रम्यः पाठः ॥ १ B. सारणि. २ D रमिंसु. ३ B सारणि ४ BC °तलानि चतु . ५ D omits दिने...... रुत्थिता.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy