________________
कुमारपालचरिते
दिसं- कुप्पिसन्त-जस - भर देवय-हरए तुमं सकुप्पासा । दिक्खाहरिआ सिक्खायरिएहि सहोवसप्पन्ति ॥ ५० ॥ गय-थी- तिमिर-केसे खल्लीडे नह-सिरम्मि संवृत्ते ।
थुवआ हैवन्ति लोआ एहि सुण्हाल- चिन्धस्स ॥ ५१ ॥ प्रवृत्तः संजातः । त्वमिवेति । भवानप्येवंविधः । जिनवचनावबोधाद् ध्वस्तनिबिडाज्ञानप्रवृत्तिः । पांशुलानां पाप्मिनां सदा वामः दुःखदायित्वात् । सामजव्रजैः हस्तिघटाभिर्दत्तः अर्घः उपायनं यस्मै । सदाचारनिरतत्वात् पवित्रश्चेति ॥
मंसल | पंसुला । " मांसादिष्वनुस्वारे " [ ७०] इति मांसप्रकारेष्वनुस्वारे सति आदेशतोऽत् ॥
सामय । " श्यामाके मः
[ ७१] इति मस्य आत अत् ॥
७०. दिक्षु कूर्पासः कञ्चुलिका तद्वद् आचरन् यशोभरो यस्य स तथा तस्यामन्त्रणम् । हे दिक्कूर्पासद्यशोभर देवतागृहे सकूर्पासाःसकञ्चुका दीक्षाचार्या बटुककरणादिसंस्कारकरिणः शिक्षाचार्यैः शास्त्रपाठकैः सह त्वाम् उपसर्पन्ति । आशीर्वादप्रदानार्थं समीपम् आगच्छन्ति । इदानीम् इति प्रक्रमाज्ज्ञेयम् । एवम् अन्यत्रापि ॥
सइ सया । कुप्पिसं कुप्पासा । "इः सदादौ वा ” [७२] इति आत इत्वं वा । दिक्खाइरिआ सिक्खायरिएहि । “आचार्ये चोऽच्च” [८३] इति चस्य आत इत्वम् अत्त्वं च ॥
५१. गतं नष्टं स्त्यानं घनं तिमिरमेव श्यामवर्णत्वात् केशा यत्र । अत एव खल्वाटे खलतौ नभ एव सकललोकस्य उपरिवर्तित्वात् शिरस्तस्मिन् संवृत्ते जाते सति सास्नालचिह्नस्य वृषभध्वजस्य भगवत आदिनाथस्य शूलिनश्च इदानीं प्रत्यूषे लोका आर्हतमाहेश्वराः स्तावकाः स्तोतारो भवन्ति ॥
थीण । खल्लीडे । “ई स्त्यानखल्वाटे " [७४] इति आदेरातः ई" ॥ थुवआ । सुण्हाल | उः सास्नास्तावके " [ ७५ ] इति आदेरातः उत्वम् ॥
८८
२४
""
१ D दिसि. २ BC वहुति. ३ Domits मंसल... 'रातोत्. ४ BC °संस्कारिणः, ५ D omits ई...रातः.