________________
३
[है० ८.१.६९.] प्रथमः सर्गः ।
अह कइया वि दिवा-मुह-पत्थावे पत्थवोचिअं तस्स । अणुरागागय-मरहट्ठमाइ-सूएहि इअ पढिअं ॥४८॥ हय-मसल-तम-पसरो सइ वामो पंसुलाण पञ्चूसो ।
सामय-वय-दिन्नग्धो तं व पयट्टो सया पुनो ॥४९॥ पश्चात् सेवावशवर्तित्वात् संस्थापिता देशाधिपत्ये नियोजिता नृपा अनेनेति नृपस्वभावेन हरेः प्रियाया अपि इत्थं संभाव्यते । कविमार्गे विभूतिहरिप्रिययोरैक्याद् एवं वर्णना ॥ ____तहा जह । उक्खय उक्खाया । संठविअ संठाविया । “वाव्ययोत्खातादावदातः" [६०] इति आदेराकारस्य अत् वा ॥
४८. अथ अनन्तरं कदाचिदपि कस्मिंश्चित् काले दिवामुखप्रस्तावे वासरप्रारम्भावसरे तस्य श्रीकुमारपालभूपालस्य प्रस्तावोचितं प्रभातपठनीयम् अनुरागेण अत्यद्भुतगुणगणश्रवणसंजातदर्शनस्नेहन आगता ये ते च ते महाराष्ट्रः आदिर्येषां देशानां ते तथा तेषां सूताश्च मङ्गलपाठकास्तैः इति वक्ष्यमाणं पेठितम् ॥
पत्यावे पत्थयो । “घवृद्धा'' [६८] इति आदेराकारस्य अत् वा। कचिन्न । अणुरागा॥
मरहह । "महाराष्ट्र' [६९ ] इति आदेराकारस्य अत् । वक्रादित्वाद् अनुस्वारः । बाहुलकाद् अन्यस्यापि व्यञ्जनस्य मः॥
४९. अथ द्वाविंशत्या गाथाभिः सूतोक्तम् एवाह । हतः नवदिनकरकरसंपर्काद् ध्वस्तः मांसलः सूचिभेद्यस्तमःप्रसरः तिमिरप्रवृत्तियेन सदा वामः विटादिगृहगतिनिषेधकत्वेन प्रतिकूलः । कासाम् । पांसुलानां स्वैरिणीनाम् । श्यामाकपयोभिः आरण्यव्रीहिजलैः दत्तः त्रिःप्रदक्षिणापूर्वे मार्तण्डमण्डलं प्रति क्षिप्तः अर्घः पूजा यत्र । प्रत्यूषः अहर्मुखम् । पुण्यः सकललोकलोचनान्ध्यपटलविध्वंसकत्वेन प्रशस्यः ..१ B पुंसलाण. २ BC पाठितम् . ३ BC °राकारः स्यात् for °राकारस्य भत् . ४ D द्वाविंशतिगाथाभिः,