________________
कुमारपालचरिते
जर सको न उण नरो न उणो नारायणो वि सारिच्छो । जस्स पुणाइ पुणाई वि भुवणाभय-दाण- ललिअस्स ।। ४५ ।। रणे अरण्ण-साणाउलम्मि लाऊ - लया -हरे रुनं । जस्सारिवहूहि तहा अलाउ- कुल्ला जह कयाओ ॥ ४६ ॥ उक्खय-संठविअ-निवेण जेण वच्छत्थलाओं हरिणो वि । उक्खाया भुय-दण्डे निअम्मि संठाविया लच्छी ।। ४७ ।।
२२
हरिरपि स्वपिति । यः पुनः अन्यत्र न दत्तो भारः अर्थाद् भुव एव येन । अत एव च न पुनः शयालुः आलस्योपहतः ॥
ओप्पिअ जत्थप्पिअ " वाप” [ ६३ ] इति अर्पयतेः आदरस्य ओत्त्वं वा ॥ सुवइ सोवइ । “स्वपावुच्च” [ ६४ ] इति स्वपितौ आदरस्य ओत् उच्च ॥
४५. यस्य यदि शक्रः इन्द्रः सदृक्षो न । पुनः नरः अर्जुनो न पुनर्नारायणोपि । कुतः पुनः पुनरपि भूयोभूयोपि भुवनस्य सकलसचराचरलोकस्य यद् अभयदानं वधनिवर्तनं तेन ललितस्य मनोहरस्य । यदीति संभावने । शौर्यादिभिः इन्द्रो यत्तुल्यः संभाव्यते । परमार्थतस्तु सोप्यविरतत्वाद् यत्तुल्यो नास्तीत्यर्थः ॥
न उणाइ न उणा । “नात् पुनर्यादाइ वा " [ ६५ ] इति आदेरस्य आ आइ इत्यादेशौ वा । पक्षे । न उण न उणो । केवलस्यापि दृश्यते । पुणाइ ||
४६. अरण्ये अरण्यश्वभिः वृकैः आकुले संकीर्णे अलाबूलतागृहे तुम्बिनीवल्लिमण्डपे यस्य अरिवधूभिः तथा अनवरताश्रुपनीपतनेन रुदितं यथा अलाबूनां सेकाय कुल्याः सारणयः कृताः ॥
रण्णे अरण्ण । लाऊ अलाउ । "वालाब्वरण्ये लुक्” [ ६६ ] इति आदेर्लुक् ॥
४७. अहम् एवं मन्ये । येन हरेरपि वक्षःस्थलात् लक्ष्मीः उत्खाता उत्पाटिता ततो निजभुजादण्डे संस्थापिता । कथम् एवं ज्ञायत इति विशेषणद्वारेण हेतुमाह । पूर्वम् उत्खाताः अभक्तत्वात् स्वस्थानाच्याविताः १ D omits गृहे .., । " वालाब्व"