________________
[है० ८.१.६२] ..
प्रथमः सर्गः ।
जो. आसि बम्भर - ग्गहण गुरू पर - विओअ - विहुरस्स । रण्णन्तग्गय - रिउ अन्तेउर - पोम्मच्छि-लोअस्स ॥ ४२ ॥ मनमोकारे परोपरामद - तुट्ट-हारेहिं । जस्स सहाइ निवेहिं ओप्पिअमिव मुत्तिआहरणं ॥ ४३ ॥ जत्थप्पिअ-भू-भारो सुवइ फणी - तत्थ सोवइ हरी वि । जोन्नत्थ-दिन्न-भारो न उणाइ सयालुओ न उणा ॥ ४४ ॥ न केवलम् अन्येषाम् आश्चर्ये कौतुके निरीहाः सद्ध्यानविन्यस्तचित्तत्वात् निराकाङ्क्षास्तेषां योगिनामपि आश्चर्यं किमिव न करोति । किंतु सर्व आश्चर्यं वितनोतीत्यर्थः ॥
वेल्लि वल्लि । पेरन्ते पज्जन्ते । जोण्होक्करो जसोक्केरो । अच्छेर अच्छरिअं ।
२१
८८
वल्लयुत्करपर्यन्ताश्चर्ये वा” [ ५८ ] इति वा आदेरस्य एवम् ॥ ४२. ब्रह्मचर्यं मैथुनंसेवनविरमणं तस्य ग्राहणे अङ्गीकारणे गुरुः दीक्षादाता य आसीत् पत्युर्वियोगेन विधुरस्य संकष्टस्य अरण्यस्य अन्तः मध्ये गतो यो रिपूणाम् अन्तःपुरपद्माक्षीलोकः अवरोधवधूजनस्तस्य । सर्वशत्रूणां निर्मूलकाषंकषितत्वात् तेन्नायिकानां ब्रह्मचर्यदीक्षादानम् । ब्रह्मचारी प्रायः अरण्यचारी भवतीत्युक्तिलेशः ॥
बम्भचेर । "ब्रह्मचर्ये चः " [ ५९ ] इति चस्यात एत्त्वम् ||
1
अन्तेउरं । “ तोन्तरि " [६०] इति तस्यात एत्त्वम् । कचिन्न । रण्णन्तग्गय ॥ ४३. पदपद्मनमस्कारे । क्रियमाणे इति शेषः । परस्परामर्देन अन्योन्यसंघर्षेण त्रुटिताः स्रस्ता ये हारास्तैः कृत्वा नृपैर्यस्य सभाया मौक्तिकाभरणमिव अर्पितं दत्तम् ॥
पोम्म । " ओत् पद्मे " [६१] इति आदेरतः ओत्त्वम् । “पद्मछद्म ०" [२.११२] इति विश्लेषे न । पउम ॥
नमोक्कारे । परोप्परा । " नमस्कारपरस्परे द्वितीयस्य" [६२] इति अत ओत्त्वम् ॥
४४. यत्र अर्पितभूभारः स्वपिति फणी शेषः तत्रैव अर्पितभूभारः १ D कष्टस्य २ D नायिकानां.