________________
२०
कुमारपालचरिते आसि-पुढुमो धणु-पुढमो छुरिया-पढुमो अ सेल्ल-पढमो य । सवण्णु व्व अहिण्णू जो सयल-कला-कलावस्स ॥ ३९॥ उर-सेजाइ वि हरिणो सुन्देर-घरम्म सइ सिरी अथिरा । जस्स गुण-वेल्लि-तरुणो थिरासि भू-वल्लि-पेरन्ते ॥४०॥ जस्स य दिस-पज्जन्ते अहरिअ-जोण्होकरो जसोकेरो । अच्छेर-निरीहाण वि अच्छरिअं किं व न करेइ ॥४१॥ गउअ । " गवये वः" [५४] इति वस्य उत्वम् ॥ ...
३९. असौ प्रथमः धनुषि प्रथमः छरिकायां प्रथमश्च । सेल्लेति देश्यः प्रासवाची । तस्मिन् प्रथमश्च । असिधनुऋछुरिकासेल्लशब्दैः एतक्रियापटवः सुभटा उच्यन्ते । तेषु प्रवरः स्वघातदानंपरघातवश्चनादिक्रियानिपुणत्वात् । किंबहुना यः सकलकलाकलापस्य अभिज्ञो विचक्षणः । किंवत् सर्वज्ञ इव सर्ववेदीव ।। .
पुढुमो पुढमो पढुमो पढमो । “प्रथमे पथोर्वा" [५५] इति पंथयोः अस्य युगपत् क्रमेण च उर्वा ।।
सवण्णु । अहिण्णू । "शो णत्वेभिज्ञादौ" [५.६] इति शस्य णत्वे शस्यैव अत उत्वम् ॥
४०. आस्तां तावत् स्वावासकमलादौ अस्थिरा । सौन्दर्यगृहे हरेः उरःशय्यायामपि [सदा] श्रीः अस्थिरा चश्वला । परं सापि गुणा एव यशःप्रसूनजनकत्वाद् वल्लयः वल्लयः तासां तरुरिव आधारभूतत्वात् । तस्य यस्य भूवल्लिपर्यन्ते सकले पृथ्वीवलये स्थिरा आसीत् । चापलम् अपास्य अस्मिन् गुणगणनिधौ लक्ष्मीः स्थितेति भावः ।। सेजा । सुन्देर । “एच्छज्यादौ" [५७] इति आदेरस्य एवम् ॥
४१. पूर्ववर्णनापेक्षया चः समुच्चये । यस्य दिक्पर्यन्ते अंधरितः पराभूतो ज्योत्स्नायाश्चन्द्रिकाया उत्करो राशिर्येन स यशउत्करो