________________
६३४
प्राकृतव्याकरणम् ।
[ ग्रन्थकृप्रशस्तिः ]
आसीद्विशां पतिरमुद्रचतुःसमुद्र
मुद्राङ्कितक्षितिभरक्षमबाहुदण्डः । श्रीमूलराज इति दुर्धरवैरिकुम्भि
कण्ठीरवः शुचिचुलुक्यकुलावतंसः ॥ १ ॥ तस्यान्वये समजनि प्रबलप्रताप
तिग्मद्युतिः क्षितिपतिर्जयसिंहदेवः । । येन स्ववंशसवितर्यपरं सुधांशी
श्रीसिद्धराज इति नाम निजं व्यलेखि ॥ २ ॥ सम्यग् निषेव्य चतुरश्चतुरोप्युपायान् . जित्वोपभुज्य च भुवं चतुरब्धिकाश्चीम् । विद्याचतुष्टयविनीतमतिर्जितात्मा .
काष्ठामवाप पुरुषार्थचतुष्टये यः ॥ ३ ॥ तेनातिविस्तृतदुरागमविप्रकीर्ण
शब्दानुशासनसमूहकदर्थितेन । अभ्यर्थितो निरवमं विधिवढ्यधत्त शब्दानुशासनमिदं मुनिहेमचन्द्रः ॥ ४ ।।
॥ ग्रंथानं ११८५ श्लोकाः ॥
१P does not contain any of the following verses, २ B. °ब्धिमात्रां. ३ B°तिर्यता. ४ B॥राजहंसो नभोभोजे क्रीडतो यावदन्वहम्। वाच्यमानं बुधस्तावत्पुस्तकं जयतादिदम् ॥ ५॥