________________
४.४४८ ].
प्राकृतव्याकरणम् ।
६३३
• व्यत्ययश्च ॥ ४४७ ॥ प्राकृतादिभाषालक्षणानी व्यत्ययश्च भवति ॥ यथा मागध्यां तिष्ठश्चिष्ठः [ ४.२९८ ] इत्युक्तं तथा प्राकृतपैशाचीशौरसेनीष्वपि भवति । चिष्ठदि ॥ अपभ्रंशे रेफस्याधो वा लुगुक्तो मागध्यामपि भवति । शद-माणुश-मंश-भालके कुम्भ-शहश्र-वाहे शंचिदे इत्याद्यन्यदपि द्रष्टव्यम् ॥ न केवलं भाषालक्षणानां त्याद्यादेशानामपि व्यत्ययो भवति । ये वर्तमाने काले प्रसिद्धास्ते भूतेपि भवन्ति । अह पेच्छइ रहु-तणओ ॥ अथ प्रेक्षांचक्रे इत्यर्थः ॥ आभासइ रयणीअरे । आबभाषे रजनीचरानित्यर्थः ॥ भूते प्रसिद्धा वर्तमानेपि' । सोहीअ एस वण्ठो । शृणोत्येष. वण्ठ इत्यर्थः ॥
शेषं संस्कृतवत्सिद्धम् ॥ ४४८ ॥ शेष यदत्र प्राकृतादिभाषासु अष्टमे नोक्तं तत्सप्ताध्यायीनिबद्धसंस्कृतवदेव सिद्धम् ॥
हे?-ट्टिय-सूर-निवारणीय छत्तं अहो इव वहन्ती। - जयइ ससेसा वराह-सास-दूरुक्खुया पुहवी ॥१॥ अत्र चतुर्थ्या आदेशो नोक्तः स च संस्कृतवदेव सिद्धः । उक्तमपि
कचित्संस्कृतवदेव भवति। यथा प्राकृते उरस्शब्दस्य सप्तम्येक. वचनान्तस्य उरे उरम्मि इति प्रयोगौ भवतस्तथा क्वचिदुरसीत्यपि
भवति ॥ एवं सिरे । सिरम्मि । सिरसि ॥ सरे । सरम्मि । सरसि ॥ सिद्धग्रहणं मङ्गलार्थम् । ततो ह्यायुष्मच्छ्रोतृकताभ्युदयश्चेति ॥ '. इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञ
शब्दानुशासनवृत्तावष्टमस्याध्यायस्य चतुर्थः पादः समाप्तः॥ - समाप्ता चेयं सिद्धहेमचन्द्रशब्दानुशासनवृत्तिः प्रकाशिका नामेति ॥
१P°नां प्रायो व्य'. २ A °क्तं । प्रा. ३ A °भशहस्र'; B°भसहस्रा. ४ AB °वसा. ५ B शं वंदै. ६ B °न्यपि. ७ B त्तणउ; P तणउ. ८ B रयणिअ. ९ A °पि भवंति: १० B°कृतभा'. ११ B°प्तमाध्या . १२ A हिट्ट. १३ PB °य । अत्र. १४ P °देव भवति यथा प्रा. १५ A °चनस्य. १६ B °म्मि॥ १७ B °नलघुवृ. १८ B °ष्टमाध्या'. १९ B पादः॥४॥