________________
[१० ८.१.४२ ]
प्रथमः सर्गः ।
जो दूसासण- -रिउणो आसत्थामस्स राम-सीसस्स । वीसामिअ- जस-पसरो स-जसेणं कासवि-तलम्मि ॥ ३१ ॥ वसुं वासा - नीसित्त-महि - अले ऊस- मालि-ते अस्स । रजे जस्स न कास वि नीसत्तं नीसहत्तं वा ॥ ३२ ॥ गुण-सामिद्धी पयडा कला-समिद्धी वि पायडा जस्स । जो दाहिण -पवण-निहो दक्खिण्ण-निही गुणि-वणाण ॥ ३३ ॥
किं पि किमवि । “पदाद् अपेर्वा ” [४१] पदात् परस्य अपेः आदेर्लुग् वा ॥ किं ति भए त्ति । “इते: स्वरात् तश्च द्विः” [४२] इति पदाद् इते: आदेलुक् स्वराच्च तकारो द्विः ॥
३१. दुःशासनस्य रिपुर्भीमस्तस्य । अश्वत्थाम्नः द्रोणाचार्याङ्गजस्य । रामस्य परशुरामस्य शिष्यो भीष्मस्तस्य च विश्रमितयशः प्रसरः प्रशमितसुश्लोकप्रपञ्चः स्वयशसा कृत्वा यः काश्यपीतले पृथ्वीपीठे | भीमादीनां शौर्यादिगुणगणेभ्योपि अद्भुतगुणत्वाद् अस्य सुघटस्तद्यशः प्रशमः । अथ च चिरभ्रमणखिन्नं विश्राम्यते ॥
• ३२. उस्रमालितेजसः दुःसहत्वाद् मार्तण्डकल्पप्रतापस्य यस्य विष्वक् समन्ताद् वर्षासु प्रावृङ्काले निषिक्तं धाराधरधाराधोरण्या उक्षितं महीतलं · यत्र तस्मिन् राज्ये न कस्यापि निःस्वत्वं निर्द्रव्यत्वं निःसहत्व असमर्थत्वं वा । राजन्वत्यां हि पृथ्व्यां स्वकालं वृष्टिः ईश्वराः समर्थाश्व लोका • इत्यादि सर्व सुघटमिति ॥
दूसासण | आसत्थामस्स । सीसस्स । वीसामिअ । कासवि । वीसुं । चासा । नीसित्त । ऊस । कास । 'नीसत्तं । नीसहत्तं । " लुप्तयरव ०" इत्यादिना [४३] लुप्तयाद्यानां शषसानाम् आदेः स्वरस्य दीर्घः ॥
३३. गुणानां शौर्यादीनां समृद्धि: संपत् प्रकटा अत्युत्कर्षप्राप्तत्वात् प्रसिद्धा । कलानां गीतपठितादिद्विसप्ततिसंख्यानां समृद्धिरपि यस्य 2 [ कुमारपालचरित ]
ह