________________
कुमारपालचरिते .... - तुह आणा-ओमालं सिरम्मि धरिमो जहा अणिम्मल्लं ।
अम्हे. एस्थाम्हेत्थ य इअ भणिउं जो निवेहि नओ॥२९॥
तुह हरि-पिआ जइ इमा किंपि पिआ किमवि मेइणी जइमा। '' ता किं ति मए त्ति रुसेव जस्स कित्ती गया दूरं ॥ ३० ॥ फणिपतिभ्यो वा बाहौ स्वदोर्दण्डे धृतधरः संस्थापितवसुंधरः सुप्रतिष्ठः सन्नयायमार्गस्थितः परीवारो मित्रामात्यादिवर्गो यस्य । सुप्रतिष्ठः प्रतिज्ञाशूरः तत्र अणहिलनगरे श्रीकुमारपालो राजेन्द्र आस्ते ॥ .
बाहाए । “ बाहोरात् ” [३६ ] इत्याकारोन्तादेशः ॥ . वालो । सव्वओ । धरो । वारो । सुपइट्ठो । राइन्दो । “ अतो डो.. विसर्गस्य ' [ ३७ ] इति विसर्गस्थाने डोः ॥
२९. अधुनी एकानविंशत्या गाथाभिः अस्यैव राज्ञो वर्णनंम् आह । तव आज्ञैव शासनमेव निर्माल्य शेषां शिरसि शीर्षे धरामः वहामः । किमिव । यथा अनिर्माल्यं तत्कालविकसितशतपत्रिकाचम्पकादिदाम । अत्र सिन्धुदेशादौ वयम् अत्र कुङ्कणदेशादौ च वयं वर्तामहे इति भणित्वा यो नृपैर्नतः ॥ - सुपरिट्ठ सुपइट्ठो । ओमालं अणिम्मलं । “निष्प्रती ओत्परी माल्यस्थो', [३८] । निरप्रती माल्ये स्थाधातौ च यथासंख्यम् ओत्परी वा ॥ ___३०. तव इयं हरेः प्रिया भार्या यदि किमपि अनाख्येयं यथा भवति एवं प्रिया मेदिनी च चाण्डाली इयं यदि किमपि प्रिया तदा किमिति किम् एवं सति मयेति अस्माद्धेतो रुषेव यस्य कीर्तिर्गता दूरम् ॥ कान्ता हि यदा नीचान्यकान्तासक्तं भर्तारम् अवलोकयति तदा रोषाद् अन्यत्र व्रजति । कीर्तेरपि तथा सर्वत्र भ्रमणाद् इत्थम् उत्प्रेक्षा । अत्र च हरिप्रिया लक्ष्मीः मेदिनी पृथ्वी ।।
"आदेः " [३९] । आदेरित्याधिकारः कगचजेत्यादिसूत्रात् प्राग् अविशेषे बेदितव्यः ॥ - अम्हे एत्थ अम्हेत्थ । जइ इमा जहमा । " त्यदाद्य " इत्यादिना [४०] स्यदादेरव्ययाच्च तयोरेवादेः स्वरस्य बहुलं लुक् ।।