________________
१५
[है० ८.१.३६]
प्रथमः सर्गः ।
हरि-हर - विहिणो देवा जत्थन्नाइँ वि वसन्ति देवाई | याए महिमाए हरिओ महिमा सुर-पुरीए ।। २६ ॥ जत्थञ्जलिणा कणयं रयणाइँ वि अञ्जलीइ देइ जणो ।
कण-निही अक्खीणो रयण-निही अक्खया तह वि ॥ २७ ॥ तत्थ सिरि-कुमेर-वालो बाहाए सव्वओ विधरिअ-धरो । सुपरिट्ट परीवारो सुपट्टो आसि राइन्दो || २८ ॥ एतन्नगरबुधविलोकने तु बृहस्पतेर्वाग्मित्वं माहात्म्यं गुणाश्च न प्रतिभान्तीति भावः ॥
अच्छी अच्छीइँ । नयणा नयणाइँ । वयणा वयणाई | माहप्पं माहप्पो । “ वाक्ष्यर्थवचनाद्याः " .[ ३३ ] इति वा पुंस्त्वम् ॥
२६. हरिहरविधयो देवाः अन्येपि सूर्यसुगतफणिपत्यादयो देवा यत्र वसन्ति । अनेन महिना सुरपुर्या स्वर्गलोकस्य महिमा प्रभावः हृतस्तिरस्कृतः । सुरपुर्यां हि इन्द्र एव एकः प्रवरो वसति । अत्र च महाप्रभावाण्यनेकानि दैवतानि । अतो युक्तस्तन्महिमापहारः ॥
गुणाई गुणा । देवा देवाई । “गुणाद्याः क्लीचे वा” [३४] इति वा क्लीबत्वम् ॥
२७. यत्र कनकम् अञ्जलिना हस्तेन रत्नान्यपि पद्मरागगारुत्मतहीरकमौक्तिकादीन्यपि अञ्जलिना यत्र जनो ददाति । कृपापात्रदीनानाथाद्यर्थिषु इति शेषः । तथापि कनकनिधिः सुवर्णशेवधिः अक्षीणः परिपूर्णः । रत्ननिधिश्व अक्षीणः । प्रतियाचकं तथा दाने शेवधीनां ह्रासः संभवति । परं वैश्रवणकल्पत्वाज्जनानां तत्परिपूर्णतैवेत्यर्थः । आदिमहाकुलकम् ॥
महिमाए महिमा | अञ्जलि | अञ्जलीइ । निही निही । "वेमाञ्जल्याद्याः स्त्रियाम् ” ३६ ] इति स्त्रीत्वम् ॥
२८. सर्वतः सकलदिग्वलयावनिपालेभ्यो दिग्गजकूर्मकुलाचल
१ BC ° कुमार