________________
कुमारपालचरिते सव्व-बयाणं मज्झिम-वयं व सुमणाण जाइ-सुमणं व । सम्माण मुत्ति-सम्मं व पुहइ-नयराण जं सेयं ॥ २३ ॥ चम्मं जाण न अच्छी गाणं अच्छी ताण वि मुणीण । विअसन्ति जत्थ नयणा किं पुण अन्नाण नयणाई ॥२४॥ गुरुणो वयणा वयणाइँ ताव माहप्पमवि य माहप्पो । ताव गुणाई पि गुणा जाव न जस्सि बुहे निअइ ॥२५॥
सर्वगतम् ऊर्ध्वाधामर्त्यलोकप्राप्तं परिमलस्य सौरभ्यस्य जन्म उत्पत्तिस्थानं यशः कुसुमदाम पुष्पमाल्यं दिग्रमणीनां शिरांसि सुरभयति सुरभीणि करोति । एतन्नगरम् आरभ्य सकलदिक्चक्रवालव्यापि चौलुक्यनृपाणां यश इत्यर्थः ॥
२३. यथा सर्ववयसां कौमारयौवनवार्धकानां मध्यमवयः तारुण्यं श्रेयः । यथा सुमनसां बकुलविचकिलपाटलादिपुष्पाणां जातिसुमनाः । यथा शर्मणां चक्रवर्तिदेवेन्द्रादिसौख्यानां मुक्तिशर्म तथा पृथिवीनगराणां प्रतिष्ठानादीनां मध्ये यत् श्रेयः प्रशस्यतरम् ॥
२४. येषाम् अक्षीणि न चर्म किं तु ज्ञानं तत्त्वावबोधरूपम् अक्षीणि । तेषामपि मुनीनां सातिशयज्ञानिनाम् ऋषीणां यत्र नयनानि विकसन्ति अत्यद्भुतधर्मधर्मस्थानादिवीक्षणात् प्रीयन्ते । किं पुनरन्येषां चर्मचक्षुषां सामान्यजनानां नयनानि सविकासानीति ।।
जम्मो । जसो । “ स्नम् अदामशिरोनभः ” [ ३२ ] इति पुंस्त्वम् । अदामशिरोनभ इति किम् । दामं । नहं । सिराइँ । बाहुलकात् । वयं । सुमणं । सम्मं । सेयं । चम्मं ॥
२५. गुरोः सुराचार्यस्य वचनानि तावद् वचनानि । आश्चर्यकारीणीत्यर्थः । माहात्म्यं गौरवमपि तावद् माहात्म्यम् गुणा बुद्धिमत्त्वादयोपि तावद् गुणाः यावत् न यस्मिन् बुधान् पश्यति ।