________________
कुमारपालचरिते सिविणम्मि वारण-बलं सुमिणम्मि अ आस-साहणं जस्स। दिण्ण-भयं पिच्छन्ता दत्त-करा रिउ-निवा जाया॥३४॥ अङ्गार-पिक-गोल्ले खाए इङ्गाल-पक्क-कन्दे अ।
तत्त-निलाडा रिउणो जस्स णलाडं-तवे तवणे ॥३५॥ प्रकटा । दाक्षिण्यस्य अनुकूलताया निधिः शेवधिः । गुणिनः सन्तः त एव सर्वसाधारणत्वेन वनानि । तेषां फलसमृद्धयादिजनकत्वेन दक्षिणपवननिभो योस्ति ॥
सामिद्धी समिद्धी । पयडा पायडा। "अतः समृद्धयादौ वा" [४४] इति आदेरस्य दीर्घो वा ॥ दाहिण । “दक्षिणे हे" [४५] इति आदेरस्य दीर्घः। हे इति किम् । दक्खिण्ण ॥
३४. स्वप्ने वारणबलं गजसैन्यं स्वप्ने अश्वसाधनं तुरगकटकं च दत्तभयं वितीणेत्रासं यस्य प्रेक्षमाणा दत्तकरा अर्पितदण्डा रिपुनृपा जाताः। तद्गजादिबलं चरेभ्यः सभयं निशम्य स्वप्ने साक्षादिव पश्यन्तनस्तचित्ता रिपुनृपाः स्वसौस्थ्याय यं दण्डादिना प्रसादयन्तीति भावः ॥
सिविणम्मि । दिण्ण । “इ: स्वप्नादौ" [४३] इति इत्वम् । आर्षे उकारोपि । सुमिणम्मि । बाहुलकाण्णत्वाभावे न । दत्त ॥
३५. ललाटतपे अत्युने तपने मार्तण्डे सति तप्तललाटाः संतप्तभालस्थला रिपवो यस्य अङ्गारपक्कानि यानि गोल्लेति देश्यत्वाद् बिम्बीफलानि तानि । अङ्गारेषु पक्का ये कन्दास्तांश्च खादन्ति भक्षयन्ति । यद्भयाद् अरण्यानीमध्यम् अध्यासीना अङ्गारपकबिम्बीफलकन्दादिभिः शत्रवः प्राणधारेणं कुर्वन्तीत्यर्थः ॥ __ अङ्गार इङ्गाल । पिक्क पक्क । निलोड णलाडं । “पक्काङ्गारललाटे वा" [४७] इति वा इत्वम् ॥
१D णडालं. २ BC°धारणां.३ D णिडाल णडालं.