________________
५८४
हेमचन्द्राचार्यविरचितं . [४.२७९मोन्त्याण्णो वेदेतोः ॥ २७९ ॥ शौरसेन्यामन्त्यान्मकारात्पर इदेतोः परयोर्णकारागमो वा भवति ॥ इकारे । जुत्तं णिम जुत्तमिणं । सरिसं णिमं सरिसामिणं । एकारे । किं णेदं किमेदं । एवं णेदं एवमेदं ॥
एवार्थे य्येव ॥ २८० ॥ एवार्थे य्येव इति निपातः शौरसेन्यां प्रयोक्तव्यः ॥ मम य्येव बम्भणस्स । सो य्येव एसो ॥
हले चेट्याह्वाने ॥ २८१ ॥ शौरसेन्यां चेट्याह्वाने हले इति निपातः प्रयोक्तव्यः ॥ ·हले च?रिके॥
हीमाणहे विस्मय-निर्वेदे ॥ २८२ ॥ शौरसेन्यां हीमाणहे इत्ययं निपातो विस्मये निर्वेदे च प्रयोक्तव्यः ।। विस्मये । हीमाणहे जीवन्त-वच्छा मे जणणी ॥ निर्वेदे । हीमाणहे पलिस्सन्ता हगे एदेण निय-विधिणो दुव्ववसिदेण ।।
णं नन्वर्थे ॥ २८३ ॥ , शौरसेन्यां नन्वर्थे णमिति निपातः प्रयोक्तव्यः ॥ णं अफलोदया । णं अय्यमिस्सेहिं पुढमं य्येव आणतं । णं भवं मे अग्गदो चलदि । आर्षे वाक्यालंकारेपि दृश्यते । नमोत्थु णं । जया णं । तया णं ॥
अम्महे हर्षे ॥ २८४ ॥ शौरसेन्याम् अम्महे इति निपातो हर्षे प्रयोक्तव्यः ॥ अम्महे एआए सुम्मिलाए सुपलिगढिदो भवं ॥
१ A °ति । जु. २ B ज्जु'. ३ A °मं । सरिसामणं. ४ B°°तः प्र. ५ B चतु. ६ A °स्मयनि?. ७ PB दुव्वसि. ८ B आगंतं.