________________
४.२८८] प्राकृतव्याकरणम्।
५८५ हीही विदूषकस्य ॥ २८५ ॥ शौरसेन्यां हीही इति निपातो विदूषकाणां हर्षे द्योत्ये प्रयोक्तव्यः ॥ हीही भो संपन्ना मणारधा पिय-वयस्सस्स ॥
शेष प्राकृतवत् ॥ २८६ ॥ शौरसेन्यामिह प्रकरणे यत्कार्यमुक्तं ततोन्यच्छौरसेन्यां प्राकृतवदेव भवति ॥ दीर्घ-हस्वौ मिथो वृत्तौ [ १.४ ] इत्यारभ्य तो दोनादौ शौरसेन्यामयुक्तस्य [ ४.२६० ] एतस्मात्सूत्रात्प्राग् यानि सूत्राणि एषु यान्युदाहरणानि तेषु मध्ये अमूनि तदवस्यान्येव शौरसेन्यां भवन्ति अमूनि पुनरेवंविधानि भवन्तीति विभागः प्रतिसूत्रं स्वयमभ्यूह्य दर्शनीयः ॥ यथा । अन्दावेदी । जुवदि-जणो । मणसिला । इत्यादि ।
अत ऐत्सौ पुंसि मागध्याम् ॥ २८७ ॥ मागध्यां भाषायां सौ परे अकारस्य एकारो भवति पुंसि पुल्लिङ्गे ॥ एष मेषः । एशे मेशे ॥ एशे पुलिशे ॥ करोमि भदन्त । करेमि भन्ते । अत इति किम् । णिही । कली । गिली ॥ पुंसीति किम् । जलं ॥ यदपि "पोराणमद्ध-मागह-भासा-निययं हवइ सुत्तं” इत्यादिनार्षस्य अर्धमागधभाषानियतत्वमाम्नायि वृद्धैस्तदपि प्रायोस्यैव विधानान्न वक्ष्यमाणलक्षणस्य ॥ कयरे आगच्छइ ॥ से तारिसे -दुक्खसहे जिईन्दिए । इत्यादि ।
-र-सोल-शौ ॥ २८८॥ मागध्यां रेफस्य दन्त्यसकारस्य च स्थाने यथासंख्यं लकारस्तालव्यशकारश्च भवति ॥ र ॥ नले । कले ॥ स । हंशे । शुदं । शोभणं ।। उभयोः । शालशे । पुलिशे ॥
लहश-वश-नमिल-शुल-शिल-विअलिद-मन्दाल-लायिदहि-युगे । वील-यिणे पक्खालदु मम शयलमवय्य-यम्बालं ॥ १ ॥
१ B°दि ॥अथ मागधी ॥ १A एतत्पुं०. ३ B आका?. ४ B करेमि. ५P भदन्ते. ६ P जिएन्दि'. . B °लिअ. ८ B °यियं . ९ A जंबालं.