SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ ४.२७८] प्राकृतव्याकरणम् । ५८३ कु - गमो डडुअ: ।। २७२ ॥ आभ्यां परस्य क्त्वाप्रत्ययस्य डित् अडुअ इत्यादेशो वा भवति ॥ कैडुअ । गडुअ । पक्षे । करिय । करिदूण । गच्छिय । गच्छिदूण | दिरिचेचोः ॥ २७३ ॥ त्यादीनामाद्यत्रयस्याद्यस्येचेचौ [ ३. १३९] इति विहितयोरिचेचोः स्थाने दिर्भवति । वेति निवृत्तम् । नेदि । देदि । भोदि । होदि || अतो देश्च ।। २७४ ॥ अकारात्परयोरिचेचोः स्थाने देवकाराद् दिश्च भवति || अच्छदे । अच्छदि ं ।। गच्छदे । गच्छदि । रमदे । रमदि । किज्जदे । किज्जदि । अत इति किम् । वसुआदि । नेदि । भोदि ॥ भविष्यति सिः ॥ २७५ ॥ शौरसेन्यां भविष्यदर्थे विहिते प्रत्यये परे स्सिर्भवति । हिस्साहामपवादः ॥ भविस्सिदि । करिस्सिदि । गच्छिस्सिदि । अतो दो-डा ॥ २७६ ॥ अतः परस्य ङसेः शौरसेन्यां आदो आदु इत्यादेशौ डितौ भवतः ॥ दूरादो य्येव । दूरादु ॥ इदानीमो दाणिं ॥ २७७ ॥ शौरसेन्यामिदानीमः स्थाने दार्णि इत्यादेशो भवति ॥ अनन्तरकरयंदा आणवेदु अय्यो || व्यत्ययात्प्राकृतेपि । अन्नं दाणिं बोहिं ॥ तस्मात्ताः ॥ २७८ ॥ शौरसेन्यां तस्माच्छब्दस्य ता इत्यादेशो भवति ॥ ता जाव पविसामि । ता अलं एदिणा माणेर्ण ॥ १ P° दुअ° २ P° शो भ° ३ P कदुअ । गदुअ ४ A दे च ५A दि । रम° ६ B नोदि. ७ B अकारात्प ८ AB आदू ९B माणेन.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy