________________
५८२
हेमचन्द्राचार्यविरचितं . [४.२६६पज्जलिदो भयवं हुदासणो ॥ कचिदन्यत्रापि । मघवं पागसासणे । संपाइअवं सीसो । कयवं । करेमि काहं च ॥
न वा यो व्यः ॥ २६६॥ शौरसेन्यां यस्य स्थाने य्यो वा भवति ॥ अय्यउत्त पैय्याकुलीकदम्हि । सुय्यो । पक्षे । अज्जो । पज्जाउलो । कज-परवसो ।
थो धः ॥ २६७ ॥ शौरसेन्यां थस्य धो वा भवति ॥ कधेदि कहेदि । णाधो णाहो । कधं कहं । राज-पधो राज-पहो ॥ अपदादावित्येव । थामं । थेओ ॥
इह-हचोर्हस्य ।। २६८॥ इहशब्दसंबन्धिनो मध्यमस्येत्था-हचौ [ ३. १४३ ] इति विहितस्य हचश्च हकारस्य शौरसेन्यां धो वा भवॆति ॥ इध । होध । परित्तायध । पक्षे । इह । होह । परित्तायह ॥
भुवो भः ॥ २६९ ॥ भवतेर्हकारस्य शौरसेन्यां भो वा भवति ॥ भोदि होदि । भुवदि हुवदि । भवदि हवदि ।
पूर्वस्य पुरवः ॥ २७० ॥ शौरसेन्यां पूर्वशब्दस्य पुरव इत्यादेशो वा भवति ॥ अपुरवं नाडयं । अपुरवागदं । पक्षे । अपुव्वं पदं । अपुव्वागदं ॥
क्त्व इयं-दूणौ ॥ २७१ ॥ शौरसेन्यां क्त्वाप्रत्ययस्य इयं दूण इत्यादेशौ वा भवतः ॥ भविय भोदूण । हविर्यं होदूण । पढिय पढिदूंण । रमिय रन्दूण । पक्षे भोत्ता। होत्ता । पढित्ता । रन्ता ॥
१ A °सो । संपादितवान् शिष्यः । क. २ A अय्या'. ३ B थोधः शौरसेन्यां ॥ ६७ ॥ थ'. ४ A °ति ॥ इह । इध. ५ A °रवयं ना. ६ B°वादग'. ७ A °दं । अपुव्वागदं. ८ PB °अ. ९ A °ण । मरिय । मरिदूण । र'.