________________
५८०
हेमचन्द्राचार्यविरचितं [४.२५८. तेनाप्फुण्णादयः ॥ २५८ ॥ अप्फुण्णादयः शब्दा आक्रमिप्रभृतीनां धातूनां स्थाने क्तेन सह वा निपात्यन्ते । अप्फुण्णो । आक्रान्तः ॥ उक्कोसं । उत्कृष्टम् ॥ फुडं । स्पष्टम् ॥ वोलीणो । अतिक्रान्तः ।। वोर्सट्टो । विकसितः । निसुट्टो । निपातितः ॥ लुग्गो । रुग्णः ॥ ल्हिक्को । नष्टः ॥ पम्हट्टो । प्रमृष्टः प्रमुषितो वा ॥ वित्तं । अर्जितम् ।। छित्तं । स्पृष्ठम्. । निमिअं.। स्थापितम् ।। चक्खिअं। आस्वादितम् ।। ढुंअं।लूनम् ।। जढं । त्यक्तम् ।। झोसिअं । क्षिप्तम् ॥ निच्छूटं । उदृत्तम् ।। पल्हत्थं पलोट्टं च । पर्यस्तम् ।। हीसमणं । हेषितम् । इत्यादि ।
धातवोर्थान्तरेपि ॥ २५९ ॥ उक्तादर्थादर्थान्तरेपि धातवो वर्तन्ते ॥ बलिः प्राणने पठितः खादनेपि वर्तते । बलइ । खादति प्राणनं करोति वा ॥ एवं , कलि. संख्याने संज्ञानेपि । कलइ । जानाति संख्यानं करोति वा ।। रिगिर्गतौ प्रवेशेपि ॥ रिंगई। प्रविशति गच्छति वा ॥ कांक्षतेबम्फ आदेशः प्राकृते । वम्फइ । अस्यार्थः । इच्छति खादति वा ॥ फक्कतेस्थक्क आदेशः । थक्कइ । नीचां गतिं करोति विलम्बयति वा ॥ विलप्युपालम्भ्योति आदेशः । झङ्खइ । विलेपति उपालभते भाषते वा ॥ एवं पडिवालेई । प्रतीक्षते रक्षति वा ॥ केचित् कैश्चिदुपसर्गेनित्यम् । पहरइ । युध्यते ॥ संहरइ । संवृणोति ॥ अणुहरइ । सदृशीभवति ॥ नीहरइ । पुरीपोत्सर्ग करोति ।। विहरइ । क्रीडति ॥ आहरइ । खादति ॥ पडिहरइ । पुनः पूरयति ।। परिहरइ । त्यजति ॥ उवहरइ । पूजयति ॥ वाहरइ । आह्वयति ॥ पवसइ । देशान्तरं गच्छति ।। उ पैइ । चटति ॥ उल्लुहइ । निःसरेति ॥
१ A °नाऽफुण्णा. २ B सह नि. ३ A अफुण्णो. ४ B ° सड्ढो. ५ B °सुडो. ६ A वेढत्तं. ७ A लूअं. ८ A ज्झासिअं. ९ B उद्धृतं. १० B पल्लोट्टं. ११ P रिग्गइ; B रिंगइ. १२ B पृच्छति. १३ B विडंब. १४ A °पालंभे झंख°. P °पालभ्यो . १५ A °पइ. १६ PB ° वालइ. १७ A क्रीणाति. १८P उच्चप्पइ. १९ B°ति ॥ अथ शौरसेनी॥तो.