________________
४.२३७].
प्राकृताकरणम्। . स्फुटि-चलेः ॥ २३१ ॥ अनयोरन्त्यस्य द्वित्वं वा भवति ॥ फुट्टइ फुडइ । चल्लइ चलइ ।
प्रादेर्मीलेः ॥ २३२॥ प्रादेः परस्य मीलेरन्त्यस्य द्वित्वं वा भवति ॥ पमिल्लइ पमीलइ । निमिल्लइ निमीलइ । संमिल्लइ संमीलइ । उम्मिल्लइ उम्मीलइ ॥ प्रादेरिति किम् । मीलइ ॥
उवर्णस्यावः ॥ २३३॥ . धातोरन्त्यस्योवर्णस्य अवादेशो भवति ॥ न्हुङ् । निण्हवई ॥ हु । निहवइ ॥ च्युङ् । चवइ ॥ रु। रवइ ॥ कु। कवइ ॥ सू । सवइ । पसवइ ॥ - ऋवर्णस्यारः ॥ २३४ ॥ धातोरन्त्यस्य ऋवर्णस्य अरादेशो भवति ॥ करइ । धरइ । मरईं। वरइ । सरइ । हरइ । तरइ । जरइ ॥ . वृषादीनामरिः ॥ २३५ ॥ वृष इत्येवंप्रकाराणां धातूनाम् ऋवर्णस्य अरिः इत्यादेशो भवति । वृष् । वरिसइ ॥ कृष् । करिसई ॥ मृष् । मरिसइ ॥ हृष् । हरिसइ ॥ येषामरिरादेशो दृश्यते ते वृषादयः ॥
रुषादीनां दीर्घः ॥ २३६ ॥ .रुष इत्येवंप्रकाराणां धातूनां स्वरस्य दीर्घो भवति ॥ रूसइ। तूसइ । सूसइ । दूसइ । पूसइ । सीसइ । इत्यादि ॥
युवर्णस्य गुणः ॥ २३७ ॥ धातोरिवर्णस्य च कित्यपि गुणो भवति ॥ जेऊण । नेऊण ।
१ A °मीलः. २ A उमीलइ. ३ B °शो वा भ°. ४ PB °इ। नि. ५A °रंतस्य. ६ A °इ । स°. ७ B °इ । दृष् । दरिसइ । मृ.