________________
हेमचन्द्राचार्यविरचितं
५७४
स्विदां जः ।। २२४॥ स्विदिप्रकाराणामन्त्यस्य द्विरुक्तो जो भवति । सव्वङ्ग - सिज्जिरीए । संपज्जइ । खिज्जइ ॥ बहुवचनं प्रयोगानुसरणार्थम् ॥
[ ४.२२४
व्रज - नृत-मदां चः ॥ २२५ ॥
एषामन्त्यस्य द्विरुक्तश्वो भवति || वञ्चइ । नञ्चइ | मञ्चइ || रुद-नमोर्वः ।। २२६ ॥
अनयोरन्त्येस्य वो भवति ।। रुवइ । रोवइ । नैवइ ॥
उद्विजः ।। २२७ ॥
उद्विजतेरन्त्य॑स्य वो भवति ।। उव्विवइ । उव्वेवो ॥
खाद-धावोर्लुक् ।। २२८ ॥
अनयोरन्त्येस्य लुग् भवति || खाइ खाअइ । खाहिइ । खाउ । धाई । धाहि । धाउ || बहुलाधिकाराद्वर्तमानाभविष्यद्विध्याद्येकवचन एव भवति । तेनेह न भवति । खादन्ति । धावन्ति ॥ कचिन्न भवति । धावइ पुरओ ॥
सृजो रः ।। २२९ ॥
सृजो धातोरन्त्यस्य रो भवति ॥ निसिरइ । वोसिरइ । वोसिरामि ॥
शकादीनां द्वित्वम् ।। २३० ॥
शकादीनामन्त्यस्य द्वित्वं भवति ॥ शक् । सक्कइ || जिम् । जिम्मइ || लग् | लग्गइ || मग् | मग्गइ || कुप् । कुप्पइ ॥ नशू । नस्सइ ॥ अट् । परिट्ट || लुट् । पलोट्टइ || तुट् । तुट्टइ || नद् | नट्टइ ॥ सिं । सव्वइ । इत्यादि ॥
१A मंतस्य २ A तस्य. ३ P णवइ. ४ B खाओ. ५ B इ धाइ । धाहि°. ६ B धाओ. ७ AB सिच् । सिच्चइ.