SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ ५५४ हेमचन्द्राचार्यविरचितं . [४.६८इत्यादेशौ वा भवतः ॥ णिट्ठहइ । निष्टम्भं करोति । संदाणइ । अवष्टम्भं करोति ॥ श्रमे वावम्फः ॥ ६८ ॥ श्रमविषयस्य कृगो वावम्फ इत्यादेशो वा भवति ॥ वावम्फइ । श्रमं करोति ॥ मन्युनौष्ठमालिन्ये णिव्वोलः ॥ ६९ ॥ मन्युना करणेन यदोष्ठमालिन्यं तद्विषयस्य कृगो णिव्योल इत्यादेशी वा भवति ॥ णिव्वोलइ । मन्युना ओष्ठं मलिनं करोति ॥ . . शैथिल्य-लम्बने पयल्लः ॥ ७० ॥ शैथिल्यविषयस्य लम्बनविषयस्य च कृगैः पयल्ल इत्यादेशो वा भवति पयल्लइ । शिथिलीभवति लम्बते वा ॥ निष्पाताच्छोटे णीलुञ्छः ॥ ७१ ॥ . . निष्पतनविषयस्य आच्छोटनविषयस्य च कृगो णीलुञ्छ इत्यादेशो भवति वा ॥ णीलुञ्छइ । निष्पतति । आच्छोटयति वा । क्षुरे कम्मः ॥ ७२ ॥ क्षुरविषयस्य कृगः कम्म. इत्यादेशो वा भवति ।। कम्मइ । क्षुरं करोतीत्यर्थः ॥ चाटौ गुललः ॥ ७३ ॥ चाटुविषयस्य कृगो गुलल इत्यादेशो वा भवति ॥ गुललइ । चाटु करोतीत्यर्थः ॥ १ A °शौ भ°. २ B °रोतीत्यर्थः. ३ P कृञो. ४ A°शो भ°. ५ Pकृनाः. ६ B निष्पता. ७ A °टणवि. ८ A °ति । णी'. ९ A °शो भ.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy