SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणम्। ५५१ कमेणिहुवः ॥४४॥ कमेः स्वार्थण्यन्तस्य णिहुव इत्यादेशो वा भवति ॥ णिहुवइ । कामेइ ॥ प्रकाशेणुव्वः ॥ ४५ ॥ प्रकाशेर्ण्यन्तस्य णुव्व इत्यादेशो वा भवति ॥ णुव्वइ । पयासेइ ॥ कम्पेर्विच्छोलः ॥ ४६॥ कम्र्ण्यन्तस्य विच्छोल इत्यादेशो वा भवति ॥ विच्छोलइ । कम्पेइ ॥ आरोपेर्वलः ॥४७॥ . आरुहेर्ण्यन्तस्य वल इत्यादेशो वा भवति ॥ वलइ । आरोवेइ ॥ दोले रङ्खोलः ॥४८॥ दुलेः स्वार्थे ण्यन्तस्य रोल इत्यादेशो वा भवति ॥ रङ्खोलइ । दोलँइ ।। रजे रावः ॥ ४९॥ . . रओर्ण्यन्तस्य राव इत्यादेशो वा भवति ॥ रावेइ । रञ्जेइ ॥ घटेः परिवांडः ॥ ५० ॥ घटेर्ण्यन्तस्य परिवाड इत्यादेशो वा भवति ॥ परिवाडेइ । घडेइ ॥ ___ वेष्टेः परिआलः ॥ ५१॥ वेष्टेय॑न्तस्य परिआल इत्यादेशो वा भवति ॥ परिआलेइ । वेढेइ ॥ क्रियः किणो वेस्तु के च ॥ ५२ ॥ रिति निवृत्तम् । क्रीणातेः किण इत्यादेशो भवति । वेः परस्य तु द्विरुक्तः केश्चकारात्किणश्च भवति ॥ किणइ । विक्केइ । विक्किणइ ॥ १ PB स्वार्थे ण्य . २ B रोहे'. ३ P दोलेः. ४ P दोलेइ. ५ A °शो वा भ'. ६ A केश्चका; B केचका.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy