________________
हेमचन्द्राचार्यविरचितं . . [४.३६___उन्नमेरुत्थंघोल्लाल-गुलुगुञ्छोप्पेलाः ॥ ३६ ॥ उत्पूर्वस्य नमेय॑न्तस्य एते चत्वार आदेशा वा भवन्ति ॥ उत्थञ्चइ । उल्लालइ । गुलंगुञ्छइ । उप्पेलइ । उन्नामइ ॥
प्रस्थापेः पट्टव-पेण्डवौ ॥ ३७॥ प्रपूर्वस्य तिष्ठतेर्ण्यन्तस्य पट्टव पेण्डव इत्यादेशौ वा भवतः ॥ पट्टवइ । पेण्डवइ । पट्ठावइ ॥
विज्ञपेर्वोक्कावुक्कौ ॥ ३८ ॥ विपूर्वस्य जानातेर्ण्यन्तस्य वोक अवुक्क ईत्यादेशौ वा भवतः ॥ वोक्कइ । अवुक्कइ । विण्णवइ ॥ __ अपैरल्लिव-चचुप्प-पणामाः॥ ३९॥ अर्पर्ण्यन्तस्य एते त्रय आदेशा वा भवन्ति ॥ अल्लिवइ । चञ्चुप्पइ । पणामइ । पक्षे । अप्पेइ ॥
यापेर्जवः ॥ ४० ॥ यातेर्ण्यन्तस्य जव इत्यादेशो वा भवति ॥ जवइ जावेइ ॥
प्लावरोम्बाल-पव्वालौ ॥४१॥ लवतेय॑न्तस्य एतावादेशौ वा भवतः ।। ओम्वालई । पव्वालइ ।
पावेइ ॥
विकोशेः पक्खोडः ॥ ४३ ॥ विकोशयते मधातोर्ण्यन्तस्य पक्खोड इत्यादेशो वा भवति ॥ पक्खोडइ । विकोसइ ॥
रोमन्थेरोग्गाल-वग्गोलौ ॥ ४३ ॥ रोमन्थे मधातोर्ण्यन्तस्य एतावादेशौ वा भवतः ॥ ओग्गालइ । वग्गोलइ । रोमन्थइ ।
१ B °रुच्छंघो". २ P गुलगु. ३ B उच्छंघ°. ४ AB उन्नावइ. ५ AB विज्ञापे.° ६ PB इत्येतावादे°. ७ B आवुक्कइ. ८ A यातेर्जवः. ९ B°इ। पावेइ.