________________
४. ३५]
प्राकृतव्याकरणम् ।
५४९
मिश्रेर्वीसाल-मेलवौ ॥ २८ ॥
मिश्रयतेर्ण्यन्तस्य वीसाल मेलव इत्यादेशौ वा भवतः ॥ वीसालइ ।
मेलवइ । मिस्सइ ॥
उद्धलेर्गुण्ठः ॥ २९ ॥
उन्दूलेर्ण्यन्तस्य गुण्ठ इत्यादेशो वा भवति । गुण्ठइ | पक्षे । उद्भूलेइ ॥
भ्रमेस्तालिअण्ट- तमाडौ ॥ ३० ॥
भ्रमयतेर्ण्यन्तस्य तालिअण्ट तमाड इत्यादेशौ वा भवतः । तालिअण्टइ । तमाडइ । भामेइ । भमाडेई । भमावेइ ॥
नशेर्विउड- नासव- हारव - विप्पगाल- पलावाः ॥ ३१ ॥
शेर्ण्यन्तस्य एते पचादेशा वा भवन्ति । विउडइ । नासवइ । हारवइ । विप्पगालइ | पलावईं । पक्षे । नासइ ॥
दृशेर्दाव-दंस-दक्खवाः ॥ ३२ ॥
दृशेयन्तस्य एते त्रय आदेशा वा भवन्ति ।। दावइ । दंसइ | दक्खवइ । दरिसइ ||
उद्धटेरुग्गः ॥ ३३ ॥
उत्पूर्वस्य घटेर्ण्यन्तस्य उग्ग इत्यादेशो वा भवति ॥ उग्गइ ।
उग्घाडइ ॥
स्पृहः सिंहः ॥ ३४ ॥
हो ण्यन्तस्य सिह इत्यादेशो वा भवति ॥ सिहइ ॥ संभावेरासंघः ॥ ३५ ॥
संभावयतेरासङ्घ इत्यादेशो भवति ।। आसङ्घइ | संभावइ ||
१ B भ्रमते'. २ B डइ. ३ Bप्पइ । गा°. PB ° इ । ना° ५B स्पृहेत. ६ B शो वा भ