________________
५४३
३.१७८] प्राकृतव्याकरणम् ।
अत इजस्विजहीजे-लुको वा ॥ १७५ ॥ अकारात्परस्य सोः इज्जसु इज्जहि इज्जे इत्येते लुक् च आदेशा वा भवन्ति ॥ हसेजसु । हसेजहि । हसेजे । हस । पक्षे । हससु ॥ अत इति किम् । होसु । ठाहि ॥
बहुषु न्तु ह मो ॥ १७६ ॥ विध्यादिषूत्पन्ननां बहुष्वर्थेषु वर्तमानानां त्रयाणां त्रिकाणां स्थाने यथासंख्यं न्तु ह मो इत्येते आदेशा भवन्ति ॥ न्तु । हसन्तु । हसन्तु हसेयुर्वा ॥ ह । हसह । हसत । हसेत वा ॥ मो । हसामो । हसाम । हसेम वा ॥ एवं तुवरन्तु । तुवरह । तुवरामो ॥
वर्तमाना-भविष्यन्त्योश्च ज जा वा ॥ १७७॥ वर्तमानाया भविष्यन्त्याश्च विध्यादिषु च विहितस्य प्रत्ययस्य स्थाने ज ज्जा इत्येतावादेशौ वा भवतः ॥ पक्षे यथाप्राप्तम् ॥ वर्तमाना। हसेज्ज । हसेजा। पढेज । पढेजा । सुणेन्ज । सुणेज्जा ॥ पक्षे । हसइ । पढइ । सुणइ ॥ भविष्यन्ती। पढेज । पढेजा । पक्षे । पढिहिइ ॥ विध्यादिषु । हसेज । हँसिज्जा । हसतु । हसेद्वा इत्यर्थः । पक्षे । हसउ ॥ एवं सर्वत्र । यथा तृतीयत्रये । अइवाएज्जा । अइवायावेज्जा । न समणुजाणामि । न समणुजाणेजा वा ॥ अन्ये त्वन्यासामपीच्छन्ति । होजे । भवति । भवेत् । भवतु । अभवत् । अभूत् । बभूव । भूयात् । भविता । भविष्यति । अभविष्यद्वेत्यर्थः ।।
मध्ये च स्वरान्ताद्वा ॥ १७८ ॥ स्वरान्ताद्धातोः प्रकृतिप्रत्यययोर्मध्ये चकारात्प्रत्ययानां च स्थाने ज जा इत्येतौ वा भवतः वर्तमानाभविष्यन्त्योर्विध्यादिषु च ॥ वर्तआना । होजइ । होजाइ । होज । होजा । पक्षे । होइ ॥ एवं होजसि । होजासि । होज । होज्जा । पक्षे । होहिइ ॥ एवं होजहिसि । होजाहिसि । होज । होज्जा । होहिसि । होजहिमि । होज्जाहिमि । होज
१ B हसिजहि. २ B सहइ. ३ PB हसेजा. ४ B°याविना. ५ B होजा. ६ A अभूव. ७ Bहोजिहिमि.