________________
५४२
हेमचन्द्राचार्यविरचितं .[३.१७२संगस्ये ॥ रोच्छं । रोदिष्यामि ॥ विद ज्ञाने । वेच्छं। वेदिष्यामि ॥ दच्छं । द्रक्ष्यामि ॥ मोच्छं । मोक्ष्यामि । वोच्छं । वक्ष्यामि ॥ छेच्छं। छेत्स्यामि ॥ भेच्छं । भेत्स्यामि । भोच्छं । भोक्ष्ये ॥
सोच्छादय इजादिषु हिलुक् च वा ॥ १७२ ॥ श्वादीनां स्थाने इजादिषु भविष्यदादांदेशेषु यथासंख्यं सोच्छादयो भवन्ति । ते एवादेशा अन्त्यस्वराद्यवयववर्जी इत्यर्थः । हिलुक् च.. वा भवति ॥ सोच्छिइ । पक्षे । सोच्छिहिइ । एवं सोच्छिन्ति । सोच्छिहिन्ति । सोच्छिसि । सोच्छिहिसि। सोच्छित्था। सोच्छिहित्था। । सोच्छिह । सोच्छिहिह । सोच्छिमि । सोच्छिहिमि । सोच्छिस्सामि । : सोच्छिहामि । सोच्छिस्सं । सोच्छं । सोच्छिमो । सोच्छिहिमो । सोच्छिस्सामो । सोच्छिहामो । सोच्छिहिस्सा. । सोच्छिहित्था । एवं मुमयोरपि ॥ गच्छिइ । गच्छिहिइ । गच्छिन्ति । गच्छिहिन्ति । गच्छिसि । गच्छिहिसि। गच्छिों । गच्छिहित्था । गच्छिह । गच्छिहिह । गच्छिमि । गच्छिहिमि । गच्छिस्सामि । गच्छिहामि । गच्छिस्सं । गच्छं । गच्छिमो । गच्छिहिमो । गच्छिस्सामो । गच्छिहामो । गच्छिहिस्सा । गच्छिहित्था । एवं मुमयोरपि ॥ एवं रुदादीनामप्युदाहार्यम् ॥
दु सु मु विध्यादिष्वेकस्मिस्त्रयाणाम् ॥ १७३ ॥ विध्यादिष्वर्थेषूत्पन्नानामेकत्वेर्थे वर्तमानानां त्रयाणामपि त्रिकाणां स्थाने यथासंख्यं दुसु मु इत्येते आदेशा भवन्ति ॥ हसउ सा । हससु तुमं । हसामु अहं ॥ पेच्छउ । पेच्छसु । पेच्छामु ॥ दकारोच्चारण भाषान्तरार्थम् ॥
सोहिर्वा ॥ १७४ ॥ पूर्वसूत्रविहितस्य सोः स्थाने हिरादेशो वा भवति ॥ देहि देसु ।
१ A विदक्. २ B°दादिषु. ३ B°वा . ४ A गच्छित्थ. ५B°नामनेकत्वे.