________________
३.१७१] प्राकृतव्याकरणम् ।
५४१ मि-मो-मु-मे स्सा हा न वा ॥ १६७ ॥ भविष्यत्यर्थे मिमोमुमेषु तृतीयत्रिकादेशेषु परेषु तेषामेवादी स्सा हा इत्येतौ वा प्रयोक्तव्यौ । हेरपादौ ॥ पक्षे हिरपि ॥ होस्सामि होहामि । होस्सामो होहामो । होस्सामु होहामु । होस्साम होहाम ॥ पक्षे । होहिमि । होहिमु । होहिम ॥ कचित्तु हा न भवति । हसिस्सामो । हसिहिमो॥
मो-मु-मानां हिस्सा हिस्था ॥ १६८ ॥ धातोः परौ भविष्यति काले मोमुमानां स्थाने हिस्सा हित्था इत्येतौ वा प्रयोक्तव्यौ । होहिस्सा । होहित्था । हसिहिस्सा। हसिहित्था । पक्षे । होहिमो। होस्सामो । होहामो । इत्यादि ।
मेः स्सं ॥१६९ ॥ धातोः पैरो भविष्यति काले म्यादेशस्य स्थाने स्सं वा प्रयोक्तव्यः ॥ होस्सं । हसिस्सं । कित्तइस्सं । पक्षे । होहिमि । होस्सामि । होहामि । कित्तइहिमि ॥ .
-दो हं ॥ १७० ॥ ..करोतेर्ददातेश्च परो भविष्यति विहितस्य म्यादेशस्य स्थाने हं वा 'प्रयोक्तव्यः ॥ काहं । दाहं । करिष्यामि दास्यामीत्यर्थः ॥ पक्षे । काहिमि । दाहिमि । इत्यादि ।
श्रु-गमि-रुदि-विदि-दृशि-मुचि-वचि-छिदि-भिदि-भुजा सोच्छं गच्छं रोच्छं वेच्छं दच्छं मोच्छं वोच्छं छेच्छं भेच्छं भोच्छं ॥ १७१ ॥ वादीनां धातूनां भविष्यद्विहितम्यन्तानां स्थाने सोच्छमित्यादयो निपात्यन्ते । सोच्छं । श्रोष्यामि ॥ गच्छं । गमिष्यामि ॥ संगच्छं ।
१P°वादः. २ A P °ति । हसिहिमो. ३ B परे. ४ A °ष्यत्काले. ५ B कच्छं. ६ PB °यो वा नि.