________________
५४०
हेमचन्द्राचार्यविरचितं . [३.१६१दृशि-वचेमस-डुच्चं ॥१६१॥ दृशेर्वचेश्च परस्य क्यस्य स्थाने यथासंख्यं डीस डुच्च इत्यादेशी भवतः ॥ ईअइज्जापवादः ।। दीसइ । वुच्चइ ॥
सी ही हीअ भूतार्थस्य ॥ १६२॥ भूतेर्थे विहितोद्यतन्यादिः प्रत्ययो भूतार्थः तस्य स्थाने सी ही हीअ इत्यादेशा भवन्ति ॥ उत्तरत्र व्यञ्जनादीअविधानात् स्वरान्तादेवायं विधिः ॥ कासी। काही। काहीअ । अकार्षीत् । अकरोत् । चकार वेत्यर्थः । एवं ठासी। ठाही। ठाहीअ ॥ आर्षे । देविन्दो इणमब्बवी इत्यादौ सिद्धावस्थाश्रयणात् हस्तन्याः प्रयोगः ॥ ___ व्यञ्जनादीः ॥ १६३॥ व्यञ्जनान्ताद्धातोः परस्य भूतार्थस्याद्यतन्यादिप्रत्ययस्य ईअ इत्यादेशो भवति ॥ हुवीअ। अभूत्। अभवत् । बभूवेत्यर्थः ॥ एवं अच्छीअ । आसिष्ट । आस्त । आसांचके वा । गेहीअ । अग्रहीत् । अगृह्णात् । जग्राह वा ॥
तेनास्तेरास्यहेसी ॥१६४ ॥ अस्तेर्धातोस्तेन भूतार्थेन प्रत्ययेन सह · आसि अहेसि इत्यादेशौ भवतः ॥ आसि सो तुम अहं वा । जे आसि। ये आसन्नित्यर्थः । एवं अहेसि ॥
जात्सप्तम्या इर्वा ॥१६५॥ सप्तम्यादेशात् जात्पर ईर्वा प्रयोक्तव्यः ॥ भवेत् । होज्जइ । होज ।
भविष्यति हिरादिः ॥१६६॥ भविष्यदर्थे विहिते प्रत्यये परे तस्यैवादिर्हिः प्रयोक्तव्यः॥ होहिइ भविष्यति भविता वेत्यर्थः ॥ एवं होहिन्ति । होहिसि । होहित्था। हसिहिइ । काहिइ॥
१ B °डुच्चा, २ A न्यादि. ३ A अगृहीत् . ४ A ये. ५ B°र्वा भवति॥. ६ PB °दर्थवि. ७ B वादेर्हिः.