________________
३. १६०.]
प्राकृतव्याकरणम् ।
५३९
- पाढिअं || गयं नयमित्यादि तु सिद्धावस्थापेक्षणात् ॥ अत इत्येव । झायं । लुअं । हूअं ।।
एच्च क्त्वा तुम्-तव्य- भविष्यत्सु ।। १५७ ।
क्त्वातुम्तव्येषु भविष्यत्कालविहिते च प्रत्यये परतोत एकारश्चकारादिकारश्च भवति ।। क्त्वा । हसेऊण । हसिऊण || तुम् । हसेउं । हसिउं ॥ तव्य । हसेअव्वं । हसिअव्वं ॥ भविष्यत् । हसेहिइ । सिहि । अत इत्येव । काऊण ||
वर्तमाना - पञ्चमी - शतृषु वा ।। १५८ ।।
वर्तमानापञ्चमीशतृषु परत अकारस्य स्थाने एकारो वा भवति ॥ वर्तमाना । हसेइ हसइ । हम हसिम | हसेमु हसि ॥ पञ्चमी । हसे हसउ । सुणेउ सुणउ ॥ शतृ । हसेन्तो हसन्तो ॥ कचिन्न भवति । जयइ ॥ क्वचिदात्वमपि । सुणाउँ ॥
जा-जे ।। १५९ ।।
ज्जा ज्ज इत्यादेशयोः परयोरकारस्य एकारो भवति ॥ हसेज्जा । • हसेज्ज | अत इत्येव । होज्जा । होज्ज ॥
ईअ-इज्जौ क्यस्य ।। १६० ॥
चिजिप्रभृतीनां भावकर्मविधिं वक्ष्यामः । येषां तु न वक्ष्यते तेषां • संस्कृतातिदेशात्प्राप्तस्यै क्यस्य स्थाने ईअ इज्ज इत्येतावादेशौ भवतः ॥ हसीअइ । हसिज्जइ । हसीअन्तो । हसिज्जन्तो । हसीअमाणो । हसिज्ज माणो । पढीअइ । पढिज्जइ । होईअइ । होइज्जइ ॥ बहुलाधिकारात् क्वचित् क्योपि विकल्पेन भवति । मॅए नवेज्ज । मनविज्जेज्ज । तेण लहेज्ज । तेण लहिज्जेज्ज । तेण अच्छेज्जं । तेण अच्छिज्जेज्ज । तेण अच्छीअइ ॥
1
१ B°दिषु तु . २ P° मु । हसेमो । हसिमो । प° ३ B सुणाओ. ४ A स्य स्थाने ईत्ये. ५ Pमए न वेज्ज. ६ Pमए न विज्जेज ७B°ज्ज । तेण अच्छी इ.