________________
५३८
हेमचन्द्राचार्यावरचितं [ ३.१५२• लुगावी क्त-भाव-कर्मसु ॥ १५२ ॥ णेः स्थाने लुक् आवि इत्यादेशौ भवतः क्ते भावकर्मविहिते च प्रत्यये परतः ॥ कारिअं । कराविअं ॥ हासिअं । हसाविअं॥ खामि । खमाविरं । भावकर्मणोः । कारीअइ । करावीअइ । कारिजइ । कराविजइ । हासीअइ । हसावीअइ । हासिज्जइ । हसाविजइ ।।
अदेल्लुक्यादेरत आः ॥ १५३ ॥ णेरदेल्लोपेषु कृतेषु आदेरकारस्य आ भवति ।। अति । पाडइ । मारइ। एति । कारेइ । खामेइ ॥ लुकि । कारिअं। खामिअं। कारीअइ । ' खामीअइ । कारिजइ । खामिजइ । अदेल्लुकीति किम् । कराविरं। : करावीअइ । कराविजइ ॥ आदेरिति किम् । संगामेइ । इह व्यवहितस्य मा भूत् ॥ कारिअं । इहान्त्यस्य मा भूत् ॥ अत इति किम् । दूसेइ ॥ केचित्तु आवेआव्यादेशयोरप्यादेरत आत्वमिच्छन्ति । कारावेइ । हासाविओ जणो सामलीए ॥
मौ वा ॥ १५४ ॥ अत आ इति वर्तते । आदन्ताद्धातोमौं परे अत आत्त्वं वा भवति ॥ हसामि हसमि । जाणामि जाणमि । लिहामि लिहमि ॥ अत इत्येव । होमि ॥
इच्च मो-मु-मे वा ॥ १५५ ॥ अकारान्ताद्धातोः परेषु मोमुमेषु अत इत्त्वं चकाराद् आँत्वं च वा भवतः ॥ भणिमो भणामो । भणिमु भणामु । भणिम भणाम । पक्षे । भणमो । भणमु । भणम ॥ वर्तमाना-पञ्चमी-शतृषु वा [ ३. १५८ ] इत्येत्वे तु भणेमी । भणेमु । भणेम । अत इत्येव । ठामो । होमो ॥
ते ॥ १५६ ॥ ते परतोत इत्त्वं भवति ॥ हसि। पढिअं । नविअं। हासि।
१ A कारिज. २ A °ति । पा. ३ B °वी. ४ A परे आत्वं. ५ B आका°. ६ B आत्वं वा भवति.