SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ ३.१५१] .. प्राकृतव्याकरणम् । मि-मो-मैम्हि-म्हो-म्हा वा ॥ १४७ ॥ अस्तेर्धातोः स्थाने मि मो म इत्यादेशैः सह यथासंख्यं म्हि म्हो म्ह इत्यादेशा वा भवन्ति ।। एस म्हि । एषोस्मीत्यर्थः ॥ गय म्हो । गय म्ह । मुकारस्याग्रहणादप्रयोग एव तस्येत्यवसीयते । पक्षे अत्थि अहं । अत्थि अम्हे । अत्थि अम्हो ॥ ननु च सिद्धावस्थायां पक्ष्म-श्मष्म-स्म-मां म्हः [ २. ७४ ] इत्यनेन म्हादेशे म्हो इति सिध्यति । सत्यम् । किं तु विभक्तिविधौ प्रायः साध्यमानावस्थाङ्गीक्रियते अन्यथा वच्छेण । विच्छेसु । सव्वे । जे । ते । के इत्याद्यर्थ सूत्राण्यनारम्भणीयानि स्युः ॥ . अत्थिस्त्यादिना ॥ १४८ ॥ अस्तेः स्थाने त्यादिभिः सह अस्थि इत्यादेशो भवति ॥ अत्थि सो। अत्थि ते' । अत्थि तुमं । अत्थि तुम्हे । अत्थि अहं । अत्थि अम्हे ॥ णेरदेदावावे ।। १४९ ॥ .णेः स्थाने अत् एत् आव आवे एते चत्वार आदेशा भवन्ति । देरिसइ । कारे' । करावइ । करावेइ॥ हासेइ । हसावइ । हसावेइ ॥ .उवसामेइ । उवसमावइ । उवसमावेइ ॥ बहुलाधिकारात् कचिदे नास्ति । जाणावेइ ॥ कचिद् आवे नास्ति । पाएइ । भावेइ ॥ · गुर्वादेरविर्वा ॥ १५० ॥ गुर्वादेणेः स्थाने अवि इत्यादेशो वा भवति ॥ शोषितम् । सोसविअं । सोसि ॥ तोंषितम् । तोसविरं । तोसि ॥ भ्रमेराडो वा ॥ १५१ ॥ भ्रमेः परस्य णेराडे आदेशो वा भवति ॥ भमाडइ । भमाडेइ । पक्षे । भामेइ । भमावइ । भमावेइ ॥ - १ B °ते । अत्थि अम्हे ॥. २ A दरसइ. ३ A °इ । हासेइ. ४ B °राड इत्यादे'.
SR No.002235
Book TitleKumarpal Charita
Original Sutra AuthorN/A
AuthorShankar Pandurang Pandit
PublisherBhandarkar Oriental Research Institute
Publication Year1936
Total Pages762
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy